________________
पञ्चसूत्रोपनिषद्
२३७
कज्जलपुद्गलानामाकाशे प्रसृतेर्निरन्वयोच्छेदाभावात् । एवं प्रकृते विचित्रभवसन्ततिविरहेऽपि मोक्षावस्थायां शुद्धस्वरूपस्याऽऽत्मनोऽवस्थितत्वान् न तस्योच्छेदोऽङ्गीकर्तुं न्याय्यः ।
अपि च 'सर्वनाशो मोक्षः' - इत्युपगमे सर्वमसत् पर्यवसेत् । तथाहि - चरमक्षणोऽकारणरूपस्स्यात्, ततश्च स न किञ्चित्कार्यं कुर्यात्, नार्थक्रियाकारी स्यादित्यर्थः । ततश्च - यदेवार्थक्रियाकारि तदेव सत् - इतिनीत्या तदसत्त्वं स्यात् । अत एव तस्य प्राक्तनोऽपि क्षणोऽसन भवेत् । एवञ्च सर्वेऽपि क्षणा असन्तस्स्युः । ततः समग्राऽपि सन्ततिरसती स्यात् । अनिष्टं चैतत् । अतो न क्षणसन्ततिसमुच्छेदस्वरूपो मोक्षोऽभ्युपपत्तुमुचितः ।
सूत्र : तस्स तहासहावकप्पणमजुत्तं निराहारऽनन्नयकओ निओगेण । तस्सेव तहाभावे जुत्तमेअं । सुहुममट्ठपयमेअ विचिन्तिअव्वं महाप्पण्णाए त्ति ।
T
अथ स्वभाव एवैष चरमक्षणस्य यदसौ निवर्त्ततेऽत्यन्तम्, नोत्पादयति च नवं क्षणम्, एष एव मोक्षः । अपर्यनुयोज्यश्च स्वभावः, अग्नेरुष्णत्ववदिति चेत ?
अत्रोच्यते, तथाविधचरमक्षणस्वभावोपगमो युक्तिविरुद्धः । एवमपि तदाग्रहे राजाऽऽज्ञासङ्काशतैव स्यात् । अपि च कोऽयं स्वभावः ? न च स्वस्य भाव इति वाच्यम्, स्वातिरिक्तस्य वस्तुन एव भवन्मतेऽभावात् । किन्तु स्वो भावः स्वभावः, आत्मीया सत्तेत्यर्थः । निवृत्तिस्वभावो भवति चरमक्षणः एवं यद्युच्यते, तदा निवृत्त्यनन्तरमपि विद्यते स्वभावः, चरमक्षणानन्तरं
-