________________
२३८
पञ्चसूत्रोपनिषद् निवृत्तस्वभावोऽस्तीत्यभ्युपगमात् । तथा च स्वभावसद्भावान्निराधारा स्यान्निवृत्तिः । स्वसत्तायां विद्यमानायां नाशावस्थानायोगात् ।
यदि तु - पश्चात्काले चरमक्षणसत्तैव न भवति - इत्युच्यते, तदाऽनन्वयस्स्यान्निवृत्त्याः, केनापि सह तस्या अन्वयस्य - सम्बन्धस्याभावात् । एवञ्च चरमक्षणस्य निवृत्तिरितिव्यपदेशानुपपत्तिः ।
तदेते दोषा द्रव्यवियुतपर्यायमात्राभ्युपगमेऽभिपतन्ति, न तु द्रव्यस्याप्यभ्युपगमे । तथाहि - दीपनिवृत्तावुष्णस्पर्शाधुपेतानां ज्योतिर्मुद्गलानां शीतस्पर्शाद्युपेतभस्मादिपर्यायेषु या परिणतिः, सैव दीपंनिवृत्तिः, अत्र हि पुद्गलधर्मान्वयः । पर्यायमात्रोपगमेऽवश्यं स्याद् वज्रलेपायमानाऽनन्वयप्रसक्तिरिति ।
किञ्च स्वभावस्यापर्यनुयोज्यत्वमपि स्वतोऽनन्यत्वात्तस्य, अन्यथा स्वभावपदसान्वर्थत्वायोगात् । किन्तु चरमक्षणनिवृत्त्यनन्वयलक्षणदोषसद्भावेऽपि तथास्वभावकल्पनं दुराग्रह एव । प्रतिक्रुष्टश्चैष विद्वद्भिः । यथा गुणानामन्वय आधारभूतं द्रव्यमन्तरेण न घटते, एवं निवृत्तिरपि निराधारा न सङ्गतिमङ्गति । तथाहि - गोरसद्रव्यसद्भाव एव दुग्धनिवृत्तिदध्युत्पत्तिश्च घटते । अतः पर्यायमात्रैकान्तवादेऽनन्वयदोषानुषङ्गः | अपि च वस्तुनो निवृत्तिरेव भवन्मते वस्तुस्वभावः, एवञ्च यत्र क्षणे सर्वनिवृत्तिस्तत्र कस्यान्वय इत्यन्वयाभावः |
यथा कटकात्कुण्डलनिर्मितौ सुवर्णद्रव्यमेव स्थास्नु