________________
पञ्चसूत्रोपनिषद्
२३९ कटकपर्यायं विहाय कुण्डलपर्यायं प्रतिपद्यते । तदापि पीतवर्णादिधर्माणामन्वयो भवति, अग्निप्रयोगेण सुवर्णस्य भस्मरूपतापादने तद्धर्माणां नान्वयो भवति, किन्तु पुद्गलधर्माणाम् । भवन्मतेन क्षणनष्टेऽपिकटकादिपर्याये पीतत्वादिधर्माणामन्वयो भवति, तदा भस्मनि कथं नान्वयस्स्यात् ?
नन्वेवं द्रव्यास्तिकनयेऽपि कथं भस्मनि दृश्यमानानां विलक्षणधर्माणामन्वय इति चेत् ? यथा कटकाद्यवस्थायां सुवर्णद्रव्यस्येति गृहाण | सुवर्णावस्थायां ये सूक्ष्मा अणवः, त एव भस्मन्यवतरन्ति । अतस्तेषां धर्माणामन्वयो भवति ।
नियोगग्रहणमवश्यमिदमित्थमेवोरीकार्यम्, अन्यथा शब्दार्थायोगात् - इति ख्यापनार्थम् ।
यदि च प्रथमक्षणद्रव्यमेव स्थिरीभूय द्वितीयक्षणे नवामवस्थां प्राप्नोतीत्यभिमतं स्यात्, तदैव द्वितीयक्षणे निवृत्तिस्वभावत्वमुपपद्येत, द्रव्यतया स्थिरस्यैव पूर्वपर्यायत्वेन निवृत्तियोगात् । एवमात्मनः संसारित्वपर्यायस्य कृत्स्नकर्मक्षयेन निवृत्तिर्मुक्ततयोत्पत्तिश्च भवतीति स्वीकार्यम् । एवमेव निवृत्तस्वभावअनादिसंसार-कार्यकारणभावादीनां युक्तियुक्तत्वसम्भवात् ।
सूक्ष्म पदार्थस्थानमिदम्, अतो महाप्रज्ञया - विशालगभीरतत्त्वानुगामिधिया विचारणीयम्, अन्यथा ज्ञातुमशक्यत्वादिति ।
सूत्र : अपज्जवसिअमेव सिद्धसुखं । इत्तो चेवुत्तमं इमं, सव्वहा अणुस्सुगत्तेऽणंतभावाओ | लोगंतसिद्धिवासिणो एए। जत्थ य एगो, तत्थ नियमा अणंता | अकम्मुणो गई,