________________
२४०
पञ्चसूत्रोपनिषद् पुव्वपओगेण अलाउप्पभिइभावओ निअमो अओ चेव अफुसमाणगईए गमणं । उकरिसविसेसओ इअं । . मोक्षस्वरूपे न्याय-वैशेषिकमतम् - विभु आत्मपरिमाणम् । सर्वदिग्व्यापी भवत्यात्मेति भावः । ज्ञानशून्यश्चात्मस्वभावः । नास्य कुत्रापि संसरणं भवति मुक्तियोगे । आत्यन्तिकदुःखध्वंसात्मकं विशेषगुणोच्छेदात्मकं मुक्तिस्वरूपम् - इति ।
नैतन्मतं युक्तिसङ्गतम्, ज्ञानसुखादीनामात्मगुणानां शरीरमात्र उपलब्धेस्तद्विभुत्वायोगात्, देहमात्रप्रमाणत्वसिद्धेश्च । ज्ञानादिसर्वगुणोच्छेदरूपस्य मोक्षस्य प्राथनीयत्वायोगादस्पृहणीया च स्यादेषा मुक्तिः | अपि च ज्ञानशून्यत्वे गतमात्मनश्चैतन्येनापि । चैतन्यमेवात्मनोऽजीवभिन्नत्वे नियामकम्, तदभावे च जडतामेवोपेयादात्मा । न चेष्टापत्तिरिति वाच्यम्, स्वभावापगमासम्भवात् । किञ्चाऽऽगन्तुकश्चेत् स्याच्चैतन्यम्, तदाऽचेतनेऽपीन्द्रियादौ तदागमसम्भवः, निर्विशेषादिति ।
मोक्षस्वरूपे साङ्ख्यमतम् - ज्ञानसुखादयस्तु प्रकृतिधर्माः, न त्वात्मन इति ।
एतदप्ययुक्तम्, ज्ञानाभावे चैतन्यस्याप्ययोगात्, मुक्तिपीठिकारूपेणोपवर्णितानामृतम्भरप्रज्ञा - सम्प्रज्ञाता-ऽसम्प्रज्ञातसमाधितत्त्वनिदिध्यासनादीनामप्यघटनाच्च । किञ्च पुष्करपलाशवनिर्लेपस्यात्मनो मोक्षोऽपि कल्पनामात्रमेव पर्यवस्यतीति ।
मोक्षस्वरूपे वेदान्तिमतम् - आत्मनः शुद्धपरमब्रह्मावस्था मोक्षः । स च निर्गुणो निर्धर्मः सजातीयादिभेदशून्यश्च ।