________________
पञ्चसूत्रोपनिषद्
२३६
सैव क्षणसन्ततिर्विध्यातदीपवदत्यन्तमुच्छिद्यते निरन्वयतया । एष एव मोक्षोऽभिधीयत इति चेत् ?
न, निरन्वयविनाशयोगे सतोऽसत्त्वप्रसक्तेः । युष्माभिर्हि स्थिरद्रव्यापलापाय क्षणिकज्ञानसन्ततेर्निरन्वयनाश एव मुक्तिरित्यङ्गीकृतम् । किन्तु तादृशमुक्त्यनन्तरमपि भवोद्भवापत्तिः, सतोऽसद्भावगमनवदसतोऽपि सद्भावगमनोपपत्तेः । वस्तुतस्तु नासतो विद्यते भावो नाभावो विद्यते सतः इतिनीत्या सतोऽसत्त्वप्राप्तिरेवासम्भविनीति ध्येयम् ।
-
-
ननु भवत्वसतः सदुत्पत्तिः, मोक्षानन्तरमपि भवसन्ततिप्रसूतिश्च, को दोष इति चेत् ? न्यायातिक्रमाख्य इति गृहाण | प्रागपि संसारानादित्वासिद्धेः । असदनुत्पत्तिनीत्या हि संसारानादित्वसिद्धिरभविष्यत् । यदि त्वसतोऽप्युत्पत्तिः स्वीक्रियते, तदा यत्किञ्चित्काल एव भवसन्तत्युत्पत्तिरभवदिति प्रतिपत्तुं शक्यते । न चेष्टापत्तिरिति वाच्यम्, जगत्प्रसिद्धहेतुफलभावविलोपप्रसङ्गात् । सन्तानस्य प्रथमः क्षण एवं निर्हेतुकस्स्यात्, अन्तिमक्षणश्च निष्फलस्स्यात् । परमार्थतस्त्वनादिकालीनेयं कार्यकारणव्यवस्था । न हि कारणमन्तरेण कार्यजन्म, अन्यथा दुग्धमन्तरेणैव दधिरुद्भवेत्, भोजनं विनैव च तृप्तिस्स्यात् ।
अतो वस्तुभूतकर्मणः संयोगेनानादिकालीनेनाऽऽत्मनः संसारः, तद्वियोगेन च मोक्षः । एतत्संयोगवियोगौ ह्यात्मनस्तत्तदवस्थाहेतुभूतौ । आत्म-कर्म - बन्ध-मोक्षादयः सर्वेऽपि वास्तवाः । विध्यातदीपनिदर्शनमपि पराभिमतासाधकम् । तत्रापि