________________
२३५
पञ्चसूत्रोपनिषद् संयोगमन्तरेण शुद्धात्मनोऽवस्थान्तरगमनक्रिया मुक्तिश्च न सम्भवति । नाप्यनादिसंसारोऽप्येवं घटते । न सर्वनयविशुद्धमतेनोक्तसर्वं साङ्गत्यमुपेयादिति भावः, बन्धमोक्षोभयस्यौपचारिकत्वविरहात्, मुख्यतया वास्तवत्वात् । एतदपि पुरुषार्थनिवर्त्यत्वात् । मुख्यमुक्त्यर्थमेव क्रियते शास्त्राभ्यासादिकमिति । सैषा द्रव्यास्तिकनयेनानादिबद्धात्मद्रव्यस्य मुक्तात्मद्रव्यस्य च प्रमाणसिद्धत्वप्ररूपणा ।
पर्यायास्तिकनयोऽपि बन्धादिपारमार्थिकत्वं प्रतिपादयति। यथा - आत्मपर्यायप्रयोजकान्येव कर्माणि, न त्वात्मभूतानि, बोधस्वरूपत्वविरहात् । नाप्यसद्रूपाणि कल्पितानि कर्माणि । असतो वस्तुन आत्मपर्यायप्रयोजकत्वानुपपत्तेः । एवं कर्मणो वासनाया वाऽऽत्मरूपत्वे कल्पितत्वे वाऽभ्युपगम्यमाने नानयोरात्मनः पृथगवस्थानं सिध्यति । क्षणभङ्गवादे च प्रत्येककर्मक्षणानां शुद्धज्ञानात्मकतया भवे मोक्षेऽपि समानतया भवमोक्षभेदाभावः, उभयस्यापि कल्पनामात्रत्वे नाममात्रप्रयुक्तविशेषात् । न हि कर्म वासना वा पृथग्वस्तु, किन्तु क्षणिकज्ञानमात्रम् । एवञ्च तेषां क्षणानां भिन्नत्वेऽपि यथा मुक्तेरनेकक्षणेषु विचित्रभवाभावः, एवं संसारेऽपि तदभावः । ततश्च भवमोक्षभेदाभावप्रसङ्गः । अत एतत्प्रसङ्गपरिहाराय कर्मवासनादिकमपि वस्तुसदङ्गीकर्त्तव्यम् । बन्धमोक्षावपि जीवद्रव्यस्य वास्तवपर्यायावित्युरीकार्यम् ।
ननु च द्रव्यस्याभाव एव । अशुद्धकर्मवासनाक्षणपरम्पराया एव संसाररूपत्वात् । संसारोऽपि कारणपूर्वकतयाऽस्त्वनादिः |