________________
२३४
पञ्चसूत्रोपनिषद् प्रतिपत्तुमुचितम्, प्रकृतिरूपत्वे तस्याः प्रकृतिदर्शनेच्छारूपत्वायोगात्, न हि स्वस्य स्वदर्शनेच्छा भवतीति | पुरुषरूपत्वे तु तस्या नित्यत्वप्रसक्तिरित्याधुक्तं प्राक् । ___अतः पुरुषादत्यन्तं भिन्ना दिदृक्षा पुरुषस्य न किमपि कर्तुं प्रत्यला, ततश्च कस्य बन्धो मोक्षो वेति विचार्यम् । न च कल्पितैषा दिदृक्षेति वाच्यम्, प्रमाणविरोधात् । अतः कल्पनाप्येषा व्यर्था । कल्पनातिरिक्तायास्तस्या अभावात् । न च कल्पनामात्रविग्रहं वस्तु किञ्चिदपि कार्यं करोतीत्यतः तथाविधाया दिदृक्षाया बन्धप्रयोजकत्वं न सम्भवति ।
(९) बौद्धमतसमीक्षा
सूत्र : परिणामभेआ बंधाइभेओ त्ति साहू, सव्वनयविसुद्धीए निरुवचरिओभयभावेणं । न अप्पभूअं कम्मं । न परिकप्पिअमेअं । न एवं भवादिभेओ । न भवाभावो उ सिद्धी । न तदुच्छेदेऽणुप्पाओ । न एवं समंजसत्तं । नाऽणाईमंतो भवो | न हेउफलभावो ।
वस्तुतस्त्वात्मा नित्योऽपि, द्रव्यतया, अनित्योऽपि, पर्यायतया । परिणामिनित्य आत्मेति हृदयम् । द्रव्यतया नित्योऽप्यात्मा नानापरिणामेषु परिणमते । एवमाप्नोत्यसौ देवमनुजादिपर्यायान् । आत्मैव बध्यते मुच्यते च । एवं तथाविधपरिणामविशेषेण बन्धमोक्षौ प्रमाणसिद्धौ । एकान्तनित्ये त्वात्मनि मरणादिपर्यायानुपपत्तिः, दुर्घटश्च बद्धमुक्तत्वादिव्यवहारः | न चायं व्यवहारः काल्पनिकः | तथा बाह्यवस्तु-सत्कपारमार्थिक