________________
२३३
पञ्चसूत्रोपनिषद् योगप्रयोजकत्वाख्यं तु साधर्म्यमत्स्येव । भव्यत्वस्याप्यस्ति स्वनाशकः कैवल्यावस्थायोगः, दिदृक्षाया अपीति चेत् ?
न, एवमपि वैधावस्थितेः । प्राक्काले हि दिदृक्षाऽबद्धशुद्धात्मनो बभूव । कैवल्यावस्थानन्तरमपि न तस्या भावियोगाऽऽभावः । ततश्च सा प्राग्वदबद्धशुद्धात्मनः सञ्जाता । इत्थञ्चै कतर स्यां कैवल्यावस्थायां सजातायामपि पुनस्तदुन्मज्जनं सम्भवेत् । तत्सम्भवे चाभाव एव शश्वत्या मुक्त्याः । न च भव्यत्वविषय एवम्, अनादिबद्धाशुद्धात्मावस्थारूपत्वात्तस्य, न च तदबद्धशुद्धस्य सम्भवति । दिदृक्षायास्तु कैवल्यस्य प्राक्काले पश्चात्काले च समानैवावस्थाऽऽत्मनः प्राप्यते, अतो वज्रलेपायतेंऽस्याः पुनरुन्मज्जनाऽऽपत्तिः ।
ननु स्वभाव एवैष दिदृक्षाया यन्नैषा महदादिविकारदेर्शनतः कैवल्योदयानन्तरं पुनरुदेतीति चेत् ?
न, महदादिविकारप्राक्तनानादिविशुद्धिकालीन-कैवल्यावस्थाया विकारदर्शनानन्तरं विवेकख्यातिप्रसूतायाश्च कैवल्यावस्थाया स्वरूपभेदविरहात् । एवं सत्यपि दिदृक्षासहिततद्रहितत्वलक्षणस्वभावद्वयकल्पनमेकस्मिनात्मनि विरुद्धम् । किञ्चैवमपि दिदृक्षाऽऽत्मनो भिन्नेत्येवाभ्युपेयं स्यात्, प्रकृतिपुरुषयोरतिरिक्तत्वाभ्युपगमात् ।
न ह्यनादिकालतो महदादिविकाराणामात्मयोगोऽस्ति । अपि त्वित्वरकालतः । दिदृक्षाया अपीत्वरकालत उदिततयाऽऽगन्तुकत्वपर्यवसानान्नास्याः पुरुषात्मकत्वं प्रकृतिरूपत्वं वा