________________
२३२
पञ्चसूत्रोपनिषद् विषयार्था । यद्धि वस्त्वदृष्टम्, न कदाचिदपि प्रत्यक्षमीक्षितम्, श्रुतं वा, तद्दर्शनेच्छा - दिदृक्षा न भवति । एवञ्चाबद्धावस्थायामदृष्टश्रुतायाः प्रकृत्या दर्शनस्येच्छैवात्मनो न सम्भवति ।
यदि तु निर्हेतुका स्याद् दिदृक्षा, तदऽऽत्मस्वभावभूततया (१) दिदृक्षाया अपि नित्यत्वापत्तिः । अत एव (२) तत्कार्यत्वेनाभिमतस्य बन्धस्यापि शश्वत्त्वप्रसङ्गः । अत एव (३) मोक्षाभावप्रसक्तिः । अथ स्वभावभूताऽपि नश्यति दिदृक्षेत्यभ्युपगमश्चेत् क्रियते, तदा तदनतिरिक्तस्याऽऽत्मनोऽपि नाशोऽभ्युपगन्तव्यस्स्यात्, तत्स्वभावभूतत्वात्तस्याः । न हि स्वभावविगमे वस्तुनोऽवस्थानं सम्भवतीति भावनीयम् ।
अन्यथा - आत्मावस्थाने सति, दिदृक्षाया अप्यवस्थानमभ्युपेयम्; तत्स्वभावभूतत्वात्तस्याः । अथ नैषाऽऽत्मस्वभावभूता, तदाऽऽत्मनः साऽसम्भविन्येव, अभेदमन्तरेणाऽऽत्मनस्तत्सम्बन्धस्यैवानुपपत्तेः ।
ननु च यथाऽऽत्मनोऽनतिरिक्तमपि भव्यत्वं सिद्धिगमने सति वियुज्यते, न चाऽऽत्मा तद्वियोगे विनश्यति, एवं प्रकृतिदर्शनेन निवय॑ते दिदृक्षा, अवस्थास्यति चाऽऽत्मेति सर्वमवदातमिति चेत् ? ___न, न्यायानुसारेण दिदृक्षाया भव्यत्वसाधर्म्यविरहात् । न हि शुद्धाबद्धजीवस्वरूपं भव्यत्वम् । किन्तु जीवस्वरूपम् । दिदृक्षा तु भवता शुद्धाबद्धजीवस्वरूपतया परिकल्पितेति ।
ननु मा भूत्तथाविधं भव्यत्वसाधर्म्य दिदृक्षायाः, कैवल्य