________________
पञ्चसूत्रोपनिषद्
२३१
बध्यते । किन्तु तत्प्रसूते दर्पणसङ्काशे महत्तत्त्वे पुरुषः स्वं प्रतिबिम्बं निभालयति । ततश्च प्रकृतिसम्बद्धान् बद्धत्व-कर्तृत्वज्ञातृत्वादिकान् धर्मानात्मीयतयाऽभिमन्यते । एतेनैवाभिमानेनानेकभवपरम्परात्मकः सृज्यतेऽस्य संसारः ।
यदा तु विवेकख्यात्या विजानाति, यथाभिन्नोऽहं प्रकृतेः, सदाप्यबद्धोऽकर्ता चेतनः पुरुषोहम् - तदाऽसौ क्रमेण मुच्यते । ततो बद्धमुक्तस्यास्य न पुनर्भवति दिदृक्षा, प्रकृतिदर्शनेन तृप्तत्वात्। नापि दिदृक्षाविरहे पुनरस्य बन्धो भवति । अतो बद्धमुक्तस्य पुनर्बन्धायोगः । एवं सर्वस्यापि सूपपन्नतया नानादिबन्ध उरीकर्तुमुचित इति ।
अत्रोच्यते - यदि सादिर्बन्धः, तदा बन्धस्य पूर्वकाल इन्द्रियशरीरमनसामभावात् कथं दिदृक्षोदय इति वाच्यम् । न बन्धं विना करणादि, न तदन्तरेण दिदृक्षा, नापि दिदृक्षामृते बन्धस्तत्प्रसूतः संसारश्च । किञ्च नादृष्टे दिदृक्षोदेति कस्यचित् कदाचित् ।
(१) अत्रादृष्ट इति कर्तृपदम् । दृष्टर्यविद्यमाने सति दिदृक्षाऽपि न भवतीत्येकोऽर्थः । न ह्यनाद्यबद्धस्य पुंसोऽन्तःकरणशरीरेन्द्रियादयः, अतोऽस्मिन् द्रष्टृत्वस्यैवायोगः, चक्षुर्विरहात् । दिदृक्षायाश्चासम्भवः, निर्मनस्कत्वात् । यदि च निर्हेतुकावेतौ धर्मावस्याभिमतौ तदा स्वभावभूतावेतौ स्याताम् । ततश्च नित्यदृष्टा नित्यदिदृक्षश्चात्माऽभ्युपेयस्स्यात्, तच्चानिष्टमिति ।
1
इति कर्मणि भूतकृदन्तम्, सप्तमी
(२) यद्वाऽदृष्टे - इति कर्मणि