________________
२३०
पञ्चसूत्रोपनिषद् उक्तसम्बन्धस्य व्यक्त्याऽनादित्वात् । प्रकृते तु व्यक्त्या सादिरस्ति कर्मबन्धः । अतस्तत्पर्यवसानं सम्भवति । निदर्शनमत्र काञ्चनोपलसंयोगः । सुवर्णस्योत्पत्तेरारभ्योपलसंयोगभावेऽप्यग्न्यादिप्रयोगतस्तद्वियोगस्सम्भवति । एवं कर्मबन्धप्रतिपक्षहेतुयोगेनाऽऽत्मकाञ्चनस्य कर्ममालिन्यापगमाद्विशुद्धिरपि मुक्तिलक्षणा सम्भवत्येव ।
अत्र पुनः प्रतितिष्ठन्ति साङ्ख्याः - अनादिबद्ध आत्मा नाभ्युपगन्तव्यः, अपि तु प्रागबद्धस्य पश्चात्सञ्जातो बन्ध इत्यभ्युपेयम् । कदाचिदप्यसञ्जातबन्धोऽबद्ध आत्मा । दिदृक्षया बन्धविषयीभूय तदनन्तरं मुक्तो बद्धमुक्त आत्मा । न ततः परं कदाचिद् बध्यॆत एष, दिदृक्षानुदयात् . आत्मा ह्यकर्ताऽभोक्ता च । कर्तृरूपा तु प्रकृतिः । महदहङ्कारशब्दादि-तन्मात्रेन्द्रियपञ्चभूतानि तु तस्या एव विकारभूतानि । अभेदभ्रान्त्याऽऽत्मा कर्त्तारमात्मानं मन्यते, तदाह - प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वथा । अहङ्कारविमूढाऽऽत्मा कर्त्ताऽहमिति मन्यते - इति ।
-
यदा हि चेतनस्य पुरुषस्य दिदृक्षोदेति, सदातनी प्रकृतिदर्शनेच्छा भवतीत्यर्थः, तदा संसारस्य प्रारम्भो भवति । एवञ्चाबद्धस्यात्मनो दिदृक्षा भवति, न तु बद्धमुक्तस्य । नातः पुनः संसारोन्मज्जनापत्तिरिति साङ्ख्यविशेषाः ।
दिदृक्षा नाम सत्त्वरजस्तमोगुणात्मकप्रकृतिविकारनिभालनस्पृहा । प्रकृतिरचेतनजगतो मूलम् । तद्दिदृक्षया बध्यत आत्मा । ततोऽपि संसरणारम्भः । वस्तुतस्तु प्रकृतिरेव