________________
पञ्चसूत्रोपनिषद्
२२९ मत्रातीतकालः, स हि प्रवाहेणानादिमाननुभूतवर्त्तमानभावश्च, यथोक्तम् -भवति स नामातीतः, प्राप्तो यो नाम वर्तमानत्वम् । एष्यंश्च नाम स भवति, यः प्राप्स्यति वर्त्तमानत्वम् - इति । आकाशं तु व्यक्त्याऽनादि । न तु कर्मबन्ध इदृशः, तस्य प्रवाहतोऽनादित्वात्, व्यक्त्या तु सादिरेव सः |
ननु प्रवाहतोऽप्यत्रास्तु सादिभावः, प्रवाहस्यापि कदाचित्प्रारम्भस्यावश्यकत्वादिति चेत् ? न, यदि बन्धोऽनादिर्न स्यात्तदा प्राक्तनकाल आत्मनोऽबद्धत्वमभ्युपेयं स्यात् । ततोऽप्यबद्धस्य बन्धः प्रतिपत्तव्यो भवेत् । एवञ्च न कदाचिदप्यस्य सिद्धिसम्भवः, सकृत्सर्वकर्मबन्धने त्यक्तेऽपि प्राग्वत् पुनरबद्धबन्धयोगेनात्यन्तिकमुक्त्यसम्भवात् । न ह्यबद्धमुक्तयोः कश्चिद् भेदः, शुद्धत्वस्योभयत्र निर्विशेषत्वात् । एवमबद्धबन्धसम्भवे मुक्तस्यापि तत्प्रसक्तिरिति निपुणं निभालनीयम् ।
(८) कर्मवियोगादिः सूत्र : अणाइजोगेवि विओगो कंचणोवलनाएणं । न दिदिक्खा अकरणस्स । न यादिह्रमि ऐसा । न सहजाए निवित्ती । न निवित्तीए आयट्ठाणं । न यऽण्णहा तस्सेसा । भव्वत्ततुल्ला नाएणं ! न केवलजीवरूवमेअं । न भाविजोगावेक्खाए तुल्लत्तं तया केवलत्तेण सयाऽविसेसओ । तहासहावकप्पणमप्पमाणमेव एसेव दोसो परिकप्पिआए |
ननु यद्यनादिः कर्मसम्बन्धः, तदाऽस्य वियोगोऽसम्भवी, आकाशमेरुसम्बन्धवदिति चेत् ? न, दृष्टान्तवैषम्यात्,