________________
२२८
पञ्चसूत्रोपनिषद्
प्रकृतेरेव बद्धत्वे सदाशुद्धस्यात्मनः किमायातम् ? किमर्थं चासौ मुक्त्यर्थं पुरुषार्थं कुर्यादिति चिन्त्यम् ।
ननु प्रकृतिविकारोऽहमिति भ्रममपाकर्तुमात्मना मोक्षपुरुषार्थः कर्त्तव्य इति चेत् ? एतद्भ्रम एवात्मनोऽशुद्धदशापिशुनो बद्धत्वसूचकश्चेति किं न विचार्यते ? एवमेव भ्रमविगमेनात्मा शुद्धों मुक्तश्च सञ्जात इत्युक्तिसाङ्गत्यसम्भवात् । अतो प्राग्बद्धस्यैव मुक्तिरङ्गीकर्तुमुचिता । अबद्धस्यापि मुक्तिसम्भव आकाशादेरपि तत्प्रसक्तेश्च ।
1
किञ्चात्मनो नित्यमुक्तत्वाभ्युपगमे भवतामेवाऽऽगमस्यानुपपत्तिः, यत्तत्रोक्तम् - पञ्चविंशतितत्त्वज्ञो यत्र तत्राऽऽश्रमे रतः । जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः इति । अथ बद्धत्वमेवात्मनोऽसम्भवि, अमूर्त्त आत्मनि मूर्त्तकर्मसम्बन्धासम्भवादिति चेत् ? न न हि संसार्यात्माऽऽकाशवत् सर्वथा शुद्धोऽरूपी च, किन्त्वनादिकालतः कर्मलेपलिप्ततया मूर्त्तसङ्काशः । अतस्तस्मिन् नवः कर्मसंयोगः सम्भवति । न च कश्चित् प्रथमः कर्मलेपोऽस्त्वात्मनीति वाच्यम्, अहेतुकत्वापत्तेः, तस्य च 'नाकारणं भवेत्कार्य' मितिनीत्याऽसम्भवात् ।
,
सूत्र : अणाइमं बंधो पवाहेणं, अइयकालतुल्लो । अबद्धबंधणे वाऽमुत्ती, पुणो बंधपसंगओ, अविसेसों । अबद्धमुत्ताणं ।
व्यक्त्या तु प्रत्येका बन्धक्रिया नूतनोत्पन्ना, किन्तु प्रवाहत आत्माऽनादिकालतः कर्मबन्धविषयीभवति । निदर्शन