________________
पञ्चसूत्रोपनिषद्
२२७ मोक्षः | क्रियाकर्म जीवः । उपेत्याऽऽलिङ्गति जीवं मोक्षः | अतो मोक्षः प्रापकः । भव्यः प्राप्यः । एतत्प्राप्तिक्रियायां कर्मभूतो जीवोऽपि कारणम् । अतः क्रियावैचित्र्याज्जीवस्वभावभूते भव्यत्वेऽपि सिद्ध्यति वैचित्र्यम् ।
यथा समानेऽपि विभवे नैकमनुजानां कालभेदेन तत्प्राप्तौ भिन्नभिन्नकालीनः पुण्योदय एव नियामकतया पर्यवस्यति । एवं समानोऽपि मोक्षोऽनेकजीवैर्भिन्नभिन्नकालेऽवाप्यते, अतस्तत्कारणभूतं भव्यत्वं विचित्रमित्युरीकर्त्तव्यम् भव्यत्वस्य विचित्रो विपाकोऽपि भव्यत्ववैचित्र्यप्रभवः । एवञ्चासमानं प्रतिजीवं तथा भव्यत्वमिति निष्कर्षः ।
साङ्ख्यमतनिरासः
अनादिकालीनमिदं जीवानां सिद्धिगमनम् । यथाऽनेन भव्यानां विचित्रं तथाभव्यत्वं सिध्यति, तथा - न जीवा अनादिकालतः शुद्धा बुद्धा मुक्ता वा, किन्तु कर्ममललिप्ततयाऽशुद्धा अबुद्धा अमुक्ताश्च, संसारिण इत्युक्तं भवति । अत एवैषां शुद्धत्वादिपर्याययोगः सम्भवति । प्रागसिद्धस्य सिद्धिसम्भवात् । न हि प्रथमत एव सिद्धः सिध्यति नाम । बद्धस्यैव मुक्त्युपपत्तेः । अबद्धस्य तु मुक्तिर्न पारमार्थिका | न चास्यां मुक्तिशब्दार्थः बन्धविश्लेषणरूपो घटते | न चोपचारेण मुक्तव्यवहारस्स्यादिति वाच्यम्, अन्यत्र मुख्यमुक्तिसद्भाव एव तदुपचारघटनात्, माणवकसिंहवत् । ननु साङ्ख्यसम्मता मुख्यमुक्तिर्घटत एव प्रकृतौ, उपचारात्त्वात्मनीति चेत् ? न,