________________
२२६
पञ्चसूत्रोपनिषद् नियामकतया पर्यवस्यति । एवं मोक्षं प्रति तेषां भव्यत्वानां समानं कारणत्वम्, तत्साधनसम्पादनं प्रति त्वसमानमित्यनेकान्तवादः । न तु. समानकारणत्वैकान्तः । न हि भिन्नभिन्नानेक़कार्यप्ररूपणे शक्त. एषः । अपि च भव्यत्वसमानत्वैकान्ते तु समानकाले समानसामग्र्या सर्वभव्यानां सिद्धिगमनप्रसक्तिः । न चैतद् दृष्टमिष्टं वा । ... ___ अतः एकान्तवादो मिथ्यावादः, अतो वस्तुव्यवस्थानासम्भवात् । अनेकान्तवाद एव भव्यानां सिद्धिगमनकालभेदस्य तत्साधनभेदस्य चोपपत्तिसम्भवात् । । ।
भव्यत्वं नाम मोक्षभवनयोग्यत्वम् | मोक्षभवनं मोक्षप्राप्तिः | तत्प्राप्तेः कर्म भव्यजीवः । मोक्षो भव्यजीवस्य प्राप्तो भवतीति भव्यजीवः प्राप्यः । एतदर्थे विध्यर्थकृदन्तपदं भव्य इति । 'य'प्रत्ययः सूचयति कर्मत्वम् । कर्म. नाम षट्कारकमध्य एकतमः कारकः । कारकश्च क्रियाकारणं भवति । यदि तु वस्तुनि स्वभाववैचित्र्यमेव न भवेत् । तदाऽकिञ्चित्करो भवेत्सहकारिभेदः । भिन्नाऽपि कृषिरीतिस्तदैव भिन्नं शस्यमुत्पादयति, यदा बीजेषु शालित्वगोधूमत्वादि-स्वभाववैचित्र्यं विद्यते, नान्यथा । एवं जीवस्वभाववैचित्र्य एव सिद्धिगमनकालवैचित्र्यं तत्साधननानात्वं च सङ्गतिमङ्गतीति निपुणं निभालनीयम् ।
न हि मोक्षो भव्यः, अपि तु जीवः । कर्मणि विध्यर्थकृदन्तमिदम् । एवमेतद्धटामटाट्यते - प्राप्तिक्रियाकर्ता