________________
पञ्चसूत्रोपनिषद्
२२५ ननु तथाभव्यत्वाभेदेऽपि भिन्नभिन्नसहकारिकारणवैविध्येन विचित्रप्रकारैर्मोक्षफलावाप्तिः कथं सङ्गतिमङ्गतीति चेत् ? सहकारिभेद एव किंम्प्रसूत इत्येव तु पृच्छ्यतां प्रथमम् । सोऽपि भेदस्तथाभव्यत्वभेदप्रभवः । तथाभव्यत्वमवलम्ब्यैव प्रवर्त्तन्ते सहकारिणः, तादृशसहकारिस्वभावविरहे सहकारिणां नियतोपनिपातस्यैवानुपपत्तिरिति सूक्ष्ममीक्षणीयम् । यदि तु तथाभव्यत्वापेक्षा न स्यात् सहकारिणाम् तदा कथं सर्वजीवानां युगपत्सहकारिसमागमो न भवतीति विचिन्त्यम् । तदत्र तथाभव्यत्ववैचित्र्यप्रयुक्तं सहकारिवैचित्र्यमेव नियामकम् । एवं समानेऽपि भव्यत्वे भव्यानामसमानं तथाभव्यत्वमित्यनेकान्तः । यद्वा सादयोऽनादयश्च सिद्धा इत्यनेकान्तः । __सूत्र : अणेगंतवाओ तत्तवाओं | स खलु एवं इहरहेगंतो। मिच्छत्तमेसो । न इतो. ववत्था । अणारिहमेअं । संसारिणो उ सिद्धत्तं । नाबद्धस्स मुत्ती सद्दत्थरहिआ |
अनेकान्तवाद एव तत्त्ववादः - तात्त्विंकः सिद्धान्तः । एकान्तवादो मिथ्यासिद्धान्तः । अनेकान्तवादप्रयुक्तं पदार्थनिरूपणं तात्त्विकम् । यत एष वंस्तुनि घटमानाननेकधर्मान् कार्यसामर्थ्यानि चानेकानि सम्यक् प्ररूपयति । न त्वेकान्तवादवदमुकं स्वीकरोत्यपलपति चामुकमिति ।
प्रकृते भव्यत्वेऽनेकान्त एवम् - भव्यत्वं हि मोक्षप्राप्तियोग्यतारूपम्, अतों यथैतन्मोक्षनिबन्धनम्, तथैव मोक्षसाधनाराधनानामपि कारणम् । न हि योग्यत्वविरह एतत्सर्वमवाप्यते । अतस्तत्तद्भव्यजीवानां मोक्षसाधनयोगवैचित्र्ये भव्यत्ववैचित्र्यमेव