________________
२२४
पंञ्चसूत्रोपनिषद् अन्यत्रापि - कुमारी न यथा वेत्ति, सुखं दयितभोगजम् । न जानाति तथा लोको, योगिनां समतासुखम् - इति (अध्यात्मसारे ९ - २०)
यथा चारोग्यसुखं रोगी न संवेत्तीत्यप्यत्र निदर्शनम्, उक्तञ्च - रागाईणमभावे जं होइ सुहं तयं जिणो मुणइ । ण हि सण्णिवायगहिओ, जाणइ तयभावजं सोक्खं - इति । तदेषा विभाषैव । परमार्थतस्त्वचिन्त्यमेव सिद्धसुखस्वरूपम् । न ह्यस्मद्विधमतिज्ञानविषयस्सः, अतो नास्मत्कृतसूक्ष्मचिन्तनस्यापि गम्यं तत् ।
(५) विचित्रतथाभव्यत्वकृतसहकारिभेदः सूत्र : साइ-अपज्जवसि एगसिद्धावेक्खा, पवाहओ अणाइ । तेवि भगवंतो एवं | तहाभव्वत्ताइभावओ । विचित्तमेअं तहाफलभेएण । नाविचित्ते सहकारिभेओ । तदवेक्खो तओ त्ति ।
तच्च सुखं साद्यपर्यवसितमेकसिद्धापेक्षया, न तु प्रवाहतः, प्रवाहतस्तदोघमाश्रित्यानाद्यन्तत्वात् ।
अथ भव्या एव सिध्यन्ति । तेषाञ्च समानत्वेऽपि भव्यत्वे कथं सिद्धिगमनकालस्तत्सामग्री च भिन्ना भवतीति चेत् ? तथाभव्यत्वभेदादिति गृहाण | तथाफलपरिपाकीह तथाभव्यत्वम् । तथाभव्यत्वं हि भिन्नभिन्नमोक्षसामग्र्यां मोक्षलक्षणे फले च परिपच्यते । अतः प्रतिजीवं तद् भिन्नं भवति । अतोऽनुसृत्य कालादिभेदं तत्तज्जीवसिद्धिगमनं भवति ।