________________
२२३
पञ्चसूत्रोपनिषद् जगति कुतो दृष्टचरस्स्यादिति भावनीयम् ।
किञ्च विषयसुखं तत्साधनभूतोऽर्थश्चानर्थः परमार्थतः, नातः सुखसम्भवः । सुखं तु विद्यते श्रेष्ठकेवलज्ञानादिरूपेऽर्थे, अत एव परार्थसम्पादनसम्भवात् । परार्थः - परेषामिष्टवस्तु श्रेष्ठो वाऽर्थो मोक्षलक्षणः । . . ___ एवं वस्तुतोऽनिच्छेच्छा इच्छा । यत्पूर्त्या प्राप्यते शश्वदनिच्छा । ततश्च न कदाचिदुदेति काऽपीच्छा । ततस्तन्मूलकस्य दुःखस्याप्यभावः । लोके तु यद्यप्यद्य कथञ्चित्सर्वेच्छासम्प्राप्तिस्स्यात्, तथापि श्व इच्छान्तरोदयेन बाधते एव तत्फलभूतं दुःखम् । अतो कर्त्तव्यानिच्छेच्छा, तत्पूर्ती सदातननिःस्पृहभावयोगात् । ततश्च न कश्चित्सन्तापः, केवलं परमसुखसंवित्तिः । ... .. .
· वीतरागभावोदय एव सिद्ध्यत्यनिच्छेच्छा । वीतरागभावोदयोऽपि विरागमन्तरेणासम्भवी । तदर्थमपि कर्त्तव्य इच्छाह्रासः । सोऽपि प्रारभ्यते प्रथमादेव गुणस्थानात् । तत्प्रकर्षश्च लभ्यते सप्तमे गुणस्थानके | . . ___ अनन्तं सिद्धसुखं सूक्ष्मम् । नैतत् परमार्थेनेतरेण गम्यते । इतरेण - असिद्धेन । न हि संसारिणा सिद्धसुखमवगन्तुं शक्यमिति भावः । अत्र निदर्शनमाह - यतिसुखमिवायतिना, विशिष्टक्षायोपशमिकभाववेद्यत्वात्तस्य, तदुक्तम् - न देवराजस्य न चक्रवर्तिणस्तन्नो सुखं रागयुतस्य मन्ये । यद् वीतरागस्य मुनेः सदात्मनिष्ठस्य चित्ते स्थिरतां प्रयाति-इति (हृदयप्रदीपे)।