________________
२२२
पञ्चसूत्रोपनिषद् कर्माऽऽवृतश्चैषः । अत आवरणविगमेऽनन्तरूपस्य तस्याविर्भावे न किञ्चिच्चित्रम् ।
सूत्र : तं तु भावसत्तुक्खयादितो | रागादओ भावसत्तू । कम्मोदया वाहिणो । परमलद्धीओ उ अट्ठा । अणिच्छेच्छा इच्छा । एवं सुहुममेअं न तत्तओ इयरेण गम्मई जइसुहं व अजइणा, आरुगग्गसुहं व रोगिण त्ति विभासा । अचिंतमेअं सरूवेणं । __ अनन्तगुणं सिद्धसुखम्, भावंशत्रुक्षयात्, भावरोगविगमात्, भावार्थसंयोगात्, भावेच्छासम्प्राप्त्या च । सिद्धिगमनेन न केवलं द्रव्यरिपूणां भावरुजामपि । भावरिपवो हि रागाद्याः । कर्मोदयाश्च-व्याधयः । नैतेषु विद्यमानेषु सम्भवत्यनन्तसुखोदयः | रागादयो हि जनयन्ति शारीरमानसक्लेशम् । अपहरति शान्तस्थितिमात्मनः । परिणामेनापि विदधन्त्यपकारम् ।
यावत्कालं हि कर्मोदया व्याधिवज्जीवं पीडयन्ति, तावत्कालं, कुतोऽनन्तं सुखम् ? अपि च रसायनौषधपथ्यसेवनैरपास्यते ज्वरप्रयुक्तदुर्बलभावः, न तु वीर्यान्तरायकर्मोदयापादिताऽशक्तिः । यदि चोपशमं नीयन्ते कथञ्चिच्छारीररोगाः, तथापि नैषत्कालीनकर्मोदयापादिताः प्रत्यपायास्तैनिराकर्तुं शक्त्याः । एवञ्च सम्भवत्सु दारुणवेदनप्रदेषु कर्मोदयेषु कृतोऽनन्तसौख्योदयः । अतः परमार्थतो रागद्वेषमोहकर्मोदयरूपं दुःखम्, यावत्कालं हि सा भावपीडा नोपशाम्यति, तावत्कालं दुर्लभमनन्तसुखम् । यद्धि सुखं रागादिविकारोपशमेन कर्मपारतन्त्र्यापगमेनोदिति, तदंशोऽपि रागविकारविकृते कर्मवशे