________________
पञ्चसूत्रोपनिषद्
२२१ वेद्यं हि तद् ब्रह्म कुमारी स्त्रीसुखं यथा । अयोगी न विजानाति सम्यग् जात्यन्धवद् घटम् - इति । ___ अत एवाऽऽह - तद्भावे - सिद्धसुखभावे, अनुभवः परं तस्यैव - इति । एतदपि कथं ज्ञायत इत्याह -
सूत्र : आणा एसा जिणाणं सव्वण्णूणं, अवितहा एगंतओ। न वितहत्ते निमित्तं । न चानिमित्तं कज्जंति निदंसणमित्तं तु नवरं-सव्वसत्तुक्खए, सव्ववाहिविगमे, सव्वत्थसंजोगेणं, सब्विच्छासंपत्तीए जारिसमेअं, इत्तोऽणंतगुणं ।
सिद्धसुखानन्त्ये प्रमाणं सर्वज्ञवीतरागवचनम् । तच्चैकान्तेन सत्यम्, नात्रासत्यलेशोऽपि, निमिताभावात्, एतदपि रागाद्यभावात्, उक्तञ्च - रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्यानृतकारणं नास्ति - इति।।
स्यादेतत्, रागादिविरहेऽपि भवत्वनृतं वच इति चेत् ? अत्राह - न चानिमित्तं कार्यम् - इति । यथोक्तम् - नाकारणं भवेत् कार्यं, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात् कार्यकारणयोः क्वचित् - इति । एवं स्वसंवेद्यं सिद्धसुखमित्याप्तवादः । निदर्शनमात्रं तु नवरं सिद्धसुखस्येदम् सर्वशत्रुक्षये - महोपद्रवकारकेषु सर्वरिपुगणेऽत्यन्तं क्षयमुपगते सति, सर्वव्याधिविगमे - तीक्ष्णपीडाप्रदसर्वरोगबाधानां निःशेषेणोच्छिन्ने सति, सर्वार्थसंयोगेन - कृत्स्नाभीष्टविषयसुखसामग्र्यवाप्त्या, सर्वेच्छासम्प्राप्त्या - जन्मादारभ्याद्य यावदुद्भूतेच्छालक्षानामपि सम्यक् परिपूर्त्या यादृशं सुखं भवति, ततोऽनन्तगुणमेव सिद्धसुखम् । सुखं ह्यात्मस्वभावः ।