________________
२२०
पञ्चसूत्रोपनिषद् वा, सर्वतो वर्तने तद्रूपतामुपेयात्, सर्वथावस्थानस्यान्यथानुपपत्तेः | अथ देशतः, तदा तदवच्छेदेनापि देशतः सर्वतो वेति तदेवावर्त्तते । अतो वस्तुमात्रं स्वस्वरूपावस्थितं भवतीति प्रतिपत्तव्यम् ।. ___ अचिन्त्योऽयं प्रस्तुतविषयः । केवलिगम्यश्च । तदेष निश्चयनयाभिप्रायः । व्यवहारतस्तु वस्तु वस्त्वन्तरसंयोगं प्राप्याधाराधेयभावेन तिष्ठति, आनुभविकत्वात् । एवं सत्यपि नाकाशेन योगो भवति सिद्धानामितिनिश्चयमतोऽप्युचित एव संयोगशक्तिविकलत्वात्सिद्धानाम् । संयोगो ह्यवश्यं वियोगवान् भवति, अतो नाकाशेन सिद्धानां संयोगः । तथापि लोकान्तस्थेनाकाशेन यो योगो सिद्धस्याभिमतः, स भिन्नलक्षणः, अतो न तत्र संयोगलक्षणं घटते । सिद्धस्य तदपेक्षाविरहात् ।
नन्वेवं लोकान्ते सिद्धगमनं तदाश्रयस्थिरत्वयोगश्चानुपपन्नः स्यादिति चेत् ? न, यथा हि कर्मक्षयेन जीवस्यानन्तसौख्यस्वभाव आविर्भवति, एवं लोकान्तगमनादिरूपोऽपि तत्स्वभाव एव प्रकटीभवति कर्मक्षये । नैतदर्थं किमप्यपेक्षते सिद्धजीवः । अतो भिन्ना एवापेक्षाप्रसूताः संयोगाः, भिन्न एव स्वभावजन्यः सिद्धानां लोकान्तयोगः ।
कीदृशं भवति सिद्धसुखमित्यत्राऽऽह -
सूत्र : उवमा इत्थ न विज्जइ | तब्भावेऽणुभवो परं तस्सेव ।
सकलकर्मक्षयेन सिद्धस्य योऽनन्तसुखस्वभावः प्रकटीभूतः, स निरुपमः । महोदधिना एवोपमीयते महोदधिरिति ।। स्वानुभवमात्रगम्यं सिद्धसुखमिति भावः, यथोक्तम् - स्वयं