________________
पञ्चसूत्रोपनिषद्
२१९
विनश्वरत्वात् । तथापि मोहानुभावेनाज्ञजनाय रोचते सांयोगिकं फलम् । मोहेन हि गजनिमीलिकामवलम्बति जनो विनश्वरतां प्रति । ततश्च मतिविपर्यासादफलमेव मन्यते फलम् । विपर्यासादेवोदभवन्त्यनन्ता अनर्थाः । न च तत्प्रयुक्तदुःखवेदनेनाप्यवाप्यते तत्पर्यन्तः । मोहेनैवैता भवन्त्यात्मकदर्थना, अतः परमो भावशत्रुर्मोह:, अत एवोक्तो भगवता तीर्थकरेण, यथोक्तम् - अण्णाणतो रिपू अण्णो पाणिणं णेव विज्जइ । एत्तोऽसक्किरिया तीए अणत्था विस्सतो मुहा - इति ।
ननु यदि संयोगो दुष्टः कथं सिद्धस्याऽऽकाशेन स न दुष्ट इति चेत् ? अत्राह -
सूत्र : नागासेण जोगो एअस्स । से सरूवसंठिए । नागासमण्णत्थ । न सत्ता सदन्तरमुवेइ । अर्चितमे । केवलिगम्मं तत्तं । निच्छिमयमेअं । विजोगवं च जोगोत्ति न एस जोगो । भिण्णं लक्खणमेअस्स । न इत्थावेक्खा । सहावो खु एसो, अनंतसुहसहावकप्पो !
सिद्धस्याकाशेन सह संयोगो न भवति स्वरूपसंस्थितत्वात्तस्य । ननु च कथमाधारमन्तरेण स्थितिरिति चेत् ? अत्राह - नाकाशमन्यत्राऽऽधारे । अयं भावः- यथाऽऽकाशं स्वयमाधारमन्तरेणैव तिष्ठति, न चासत्त्वभावमुपयाति तथा प्रकृतेऽपि दृष्टव्यम् । अत्रैव युक्तिः - न सत्ता सदन्तरमुपैति । नाचेतनत्वं गच्छति चेतनः । नाप्यचेतनश्चेतनत्वं गच्छति । यथा भावोऽभावतां नोपयाति एवं भावान्तरतामपि नैत्येषः । यदि तु वस्तु वस्त्वन्तरे वर्तेत, तदा देशेन वा वर्त्तेत सर्वांशेन
·
1
,