________________
२१८
पञ्चसूत्रोपनिषद् - अरूपिणी सत्ता ज्ञानवत् । अनित्थंस्थसंस्थाना, इदम्प्रकारमांपन्नमित्थम् इत्थंस्थितमित्थंस्थम्, न इत्थंस्थं अनित्थंस्थम्, एवंविधं संस्थानं यस्या अरूपिण्याः सत्तायाः सा यथोक्ता । अनंतवीर्येयं सत्ता प्रकृत्यैव । तथा कृतकृत्या, तन्निष्पादनेन निवृत्ततच्छक्तिः । कृतान्येव कृत्यानि सिद्धभगवता, अतो निष्प्रयोजनतया व्यावर्तते तत्कार्यशक्तिः । .. .
किञ्च सा सर्वाऽऽबाधाविवर्जिताः, द्रव्यतो भावतश्च सर्वविधपीडारहितत्वात् । तथा सर्वथा निरपेक्षा, तच्छक्त्यपगमेन | अत एव स्तिमिता प्रशान्ता, सुखप्रकर्षादनुकूला निस्तरङ्गमहोदधिकल्पा । एतस्या एव परमसुखत्वमभिधातुमाह
सूत्र :-असंजोगिए एसाऽऽणंदे, अओ चेव परे मए । अविक्खा अणाणंदें । संजोगो विओगकारणं । अफलं फलमेआओ विणिवायपरं खु तं, बहुमयं मोहाओ अबुहाणं । जमित्तो विवज्जओ, तओ अणत्था अपज्जवसिया । एस भावरिऊ परे । अओ वुत्ते उ भगवया ।
न हि नियतद्रव्यक्षेत्रकालभावसंयोगसापेक्षो भवति सिद्धभगवान्, शब्दादिसंयोगमुक्तत्वात्, तदपेक्षाविरहितत्वाच्च । अत एव तात्त्विकतया परः प्रधानोऽस्याऽऽनन्दो मतः - इष्टः |
इहैव व्यतिरेकमाह - अंपेक्षाऽनानन्दः, कथन्नामैषा ममाऽऽशा पूरिता स्यादित्याद्यात्मकौत्सुक्यदुःखरूपत्वात्तस्याः । अपि चाभीष्टावाप्त्यनन्तरमपि न भवति सदातनं सुखम्, वियोगान्तत्वात्संयोगस्य । एवञ्च संयोगजन्यं फलं वस्तुतोऽफलमेव,