SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ पञ्चसूत्रोपनिषद् २१७ एकान्तेनानुबन्धशक्तिवर्जितः, अशुभमनङ्गीकृत्य, अत एव सम्प्राप्तनिजस्वरूपः अधिगतात्मीयानन्तज्योतिरानन्दमयस्वसतत्त्वः । अत एवाक्रियः - गमनागमनादिक्रियावर्जितः, कृतकृत्यत्वात् । ननु च प्रतिसमयं भवत्येवास्य ज्ञानदर्शन क्रिया, अतः कथमक्रियोऽयमुच्यत इति चेत् ? मनोवाक्कायाभावात्तत्क्रियाविरहात् । यद्यपि केवलज्ञानदर्पणे प्रतिबिम्बभावमुपयाति विश्वम्, तथापि निष्क्रिय एवासौ, दर्पणवत् । एवञ्च स्वभावसंस्थितो भवत्यात्मा, सांसिद्धिकधर्मवान् भवतीत्यर्थः | कर्मोदयापादितसर्वविभावापगमात् । अत एवानन्तज्ञानोऽनन्तदर्शनश्च, ज्ञेयानन्तत्वात्, स्वभावश्चास्यायमेव, यथोक्तम् - स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्ध्या | चन्द्रिकावच्च विज्ञानं, दावरणमभ्रवत् - इति (योगदृष्टिसमुच्चये ) | न शब्दादिरूपो भवति सिद्धः, पुद्गलधर्मत्वादमीषाम् । परमकल्याणदशावस्थिता-त्सिद्धादत्यन्तं विपरीता भवति संसारिणो जीवस्यावस्था, जन्माधुपद्रवकलङ्कितत्वादिति सिद्धदशाधिगमार्थं यतनीयम् ।। सूत्र : अरूवी सत्ता अणित्थंथसंठाणा, अणंतवीरिआ, कयकिच्चा, सव्वबाहाविवज्जिआ, सव्वहा निरविक्खा थिमिआ पसंता । न च शब्दादिरूपत्वाभावादभाव एव भवति सिद्धस्येत्याह
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy