________________
२१६
पञ्चसूत्रोपनिषद् अथ प्रव्रज्याफलाभिधम्
पञ्चमं सूत्रम् . इहानन्तरसूत्रे प्रव्रजितस्य चर्योक्ता । इह तु परं तत्फलमभिधातुमाह -
सूत्र : स एवमभिसिद्धे परमबंभे मंगलालए जम्मजरामरणरहिए पहीणासुहे अणुबंधसत्तिवज्जिए संपत्तनियसरूवे | अकिरिए सहावसंठिए अणंतनाणे अणंतदंसणे | से न सद्दे, न रूवे, न गंधे, न रसे, न फासे ।।
स प्रक्रान्तः प्रव्रज्याकारी, एवम् - उक्तेन सुखपरम्पराप्रकारेणाभिषिद्धः सन् परमब्रह्मस्वरूप एकान्तेन शुद्धः परमात्मरूपो भवति, सदाशिवत्वेन | शश्वत्कालं कर्माद्युपद्रवरहितत्वात् । न हि कर्मकुवासनाविकारोपद्रवैरुपद्रुतः परमात्मेत्युच्यते । किञ्चायमनन्तगुणसम्पन्नो निराकरोति परेषामप्युपद्रवान्, अतो मङ्गलालयोऽयम् । भवति हि तन्नामस्मृति - स्तुति-ध्यान-प्रशंसादिभिः सर्वमालिन्यापगमः, सर्वान्तरायविगमश्च । अत आलम्बनगोचरीविहितः सिद्धः परमात्मा महामङ्गलम् ।।
किञ्च कर्म-कायादिनिमित्ताभावेनासौ जन्म-जरा-मरणरहितः, यथोक्तम् - दग्धे बीजे यथा-ऽत्यन्तं, प्रादुर्भवति, नाङ्कुरः | कर्मबीजे तथा दग्धे, नाऽऽरोहति भवाकुर:-इति (तत्त्वार्थकारिकयाम् २ - .............) प्रक्षीणाशुभ: -