________________
पञ्चसूत्रोपनिषद्
२१५
तदेष सर्वश्रेष्ठो भवश्चरमभवः संसारे, आनन्तर्येण मोक्षहेतुत्वात्तस्य । उत्तमं ह्येतज्जन्म श्रेष्ठयशआदेयसौभाग्यसुस्वरादिपुण्यकर्मोदयोपेततयाऽविकलपरपरार्थनिमित्तमपि भवति । तत्र करोत्येष महापुरुषः सर्वमुचितं कृत्यम् । ततश्च विधूतरजोमलो बध्यमानप्राग्बद्धकर्मरहितो व्यवहारतो क्रमेण सिद्ध्यति, बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोति । निश्चयतस्तु नित्यमुक्तो भवत्यात्मा, अतो व्यवहारत इत्युक्तम् ।
—
अत्र सिध्यति - सामान्येनाणिमाद्यैश्वर्यं प्राप्नोति । बुध्यते • केवली भवति । मुच्यते भवोपग्राहिकर्मणा । परिनिर्वाति सर्वतः कर्मविगमेन । किमुक्तं भवति सर्वदुःखानामन्तं करोति, सदा पुनर्भवाभावात् । यद्वा सिध्यति, सर्वकार्यपरिसमाप्त्या, बुध्यते, तत्रापि केवलाप्रतिघातेन, मुच्यते, निरवशेषकर्मणा, परिनिर्वाति, समग्रसुखाप्त्या । एवं सर्वदुःखानामन्तं करोतीति निगमनम् ।
-
-
|
नयान्तरमतव्यवच्छेदार्थमेतदेवम् । स च नय एवम्ं नास्ति निर्वाणमित्याहुरात्मनः केऽप्यबन्धतः । प्राकृ पश्चाद् युगपद् वाऽपि तद्बन्धस्याव्यवस्थिते: - इत्यादि (अध्यात्मसारे १३-६३) एतन्मतनिराकरणार्थमुक्तक्रमेण निर्वाणं समर्थितमत्र । इत्थं तत्त्वतः प्रव्रज्यापरिपालनासूत्रं समाप्तम् ।
इति तुर्यं सूत्रम्