________________
२१४
पञ्चसूत्रोपनिषद् (- इअ पवज्जापरिपालणासुत्तं समत्तं)
प्रव्रजित उत्तमपुरुषः प्रधानयोग्यतोपेततया तथाविधकारुण्यपुण्यहृदयत्वेन विभावयति, यथा - . .
मोहान्धकारगहने, संसारे दुःखिता बत । सत्त्वाः परिभ्रमन्त्युच्चैः, सत्यस्मिन् धर्मतेजसि ।। अहमेतानत: कृच्छ्राद्यथायोगं कथञ्चन । अनेनोत्तारयामीति, वरबोधिसमन्वितः ।। तथाभव्यत्वयोगेन, कुर्वन् सत्त्वार्थमेव सः । तीर्थकृत्त्वमवाप्नोति परं सत्त्वार्थसाधनम् ।।
(योगबिन्दौ२८५, २८६, २८८) एवं तीर्थकरादिभवमवाप्य साधयत्युत्तरोत्तरं विशिष्टं परार्थम् । एवमनेकजन्माऽऽराधनाभिर्विमुच्यतेऽसौ ज्ञानावरणादिभिः कर्मभिः । वर्द्धते संवेगादिभिः प्रशस्तैः परिणामैः । यथा प्रतिदिनं सूर्यावलोकने कृते प्रतिदिवसं नवमेव तत्तेजोऽनुभूयते, तथा.ऽत्मन्याराधनानुभावेन प्रतिदिनं नवः नवः संवेगरसोऽनुभूयते । नाप्यत्र सूर्यदर्शनद्वयमध्ये रात्रिवत्संवेगद्वयमध्येऽसंवेगो भवति । सन्ततमप्यात्म-निरीक्षणानुभावेन ज्ञानाद्यभ्यासेन च तदसम्भवात्, यत्. पारमर्षम् - जो पुव्वरत्तावररत्तकाले, संपिक्खए अप्पगमप्पगेण । किं मे क़डं किं च मे किच्चसेसं. ? किं सक्कणीज्जं न समायरामि ।। किं मे परो पासइ. किं च अप्पा, किं . वाऽहं खलियं न विवज्जयामि । इच्चेव सम्ममणुपासमाणो अणागयं नो खलियं कुज्जा - इति (दशवैकालिके चूलिकायाम् २) ।...