Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 284
________________ २३५ पञ्चसूत्रोपनिषद् संयोगमन्तरेण शुद्धात्मनोऽवस्थान्तरगमनक्रिया मुक्तिश्च न सम्भवति । नाप्यनादिसंसारोऽप्येवं घटते । न सर्वनयविशुद्धमतेनोक्तसर्वं साङ्गत्यमुपेयादिति भावः, बन्धमोक्षोभयस्यौपचारिकत्वविरहात्, मुख्यतया वास्तवत्वात् । एतदपि पुरुषार्थनिवर्त्यत्वात् । मुख्यमुक्त्यर्थमेव क्रियते शास्त्राभ्यासादिकमिति । सैषा द्रव्यास्तिकनयेनानादिबद्धात्मद्रव्यस्य मुक्तात्मद्रव्यस्य च प्रमाणसिद्धत्वप्ररूपणा । पर्यायास्तिकनयोऽपि बन्धादिपारमार्थिकत्वं प्रतिपादयति। यथा - आत्मपर्यायप्रयोजकान्येव कर्माणि, न त्वात्मभूतानि, बोधस्वरूपत्वविरहात् । नाप्यसद्रूपाणि कल्पितानि कर्माणि । असतो वस्तुन आत्मपर्यायप्रयोजकत्वानुपपत्तेः । एवं कर्मणो वासनाया वाऽऽत्मरूपत्वे कल्पितत्वे वाऽभ्युपगम्यमाने नानयोरात्मनः पृथगवस्थानं सिध्यति । क्षणभङ्गवादे च प्रत्येककर्मक्षणानां शुद्धज्ञानात्मकतया भवे मोक्षेऽपि समानतया भवमोक्षभेदाभावः, उभयस्यापि कल्पनामात्रत्वे नाममात्रप्रयुक्तविशेषात् । न हि कर्म वासना वा पृथग्वस्तु, किन्तु क्षणिकज्ञानमात्रम् । एवञ्च तेषां क्षणानां भिन्नत्वेऽपि यथा मुक्तेरनेकक्षणेषु विचित्रभवाभावः, एवं संसारेऽपि तदभावः । ततश्च भवमोक्षभेदाभावप्रसङ्गः । अत एतत्प्रसङ्गपरिहाराय कर्मवासनादिकमपि वस्तुसदङ्गीकर्त्तव्यम् । बन्धमोक्षावपि जीवद्रव्यस्य वास्तवपर्यायावित्युरीकार्यम् । ननु च द्रव्यस्याभाव एव । अशुद्धकर्मवासनाक्षणपरम्पराया एव संसाररूपत्वात् । संसारोऽपि कारणपूर्वकतयाऽस्त्वनादिः |

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324