Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 283
________________ २३४ पञ्चसूत्रोपनिषद् प्रतिपत्तुमुचितम्, प्रकृतिरूपत्वे तस्याः प्रकृतिदर्शनेच्छारूपत्वायोगात्, न हि स्वस्य स्वदर्शनेच्छा भवतीति | पुरुषरूपत्वे तु तस्या नित्यत्वप्रसक्तिरित्याधुक्तं प्राक् । ___अतः पुरुषादत्यन्तं भिन्ना दिदृक्षा पुरुषस्य न किमपि कर्तुं प्रत्यला, ततश्च कस्य बन्धो मोक्षो वेति विचार्यम् । न च कल्पितैषा दिदृक्षेति वाच्यम्, प्रमाणविरोधात् । अतः कल्पनाप्येषा व्यर्था । कल्पनातिरिक्तायास्तस्या अभावात् । न च कल्पनामात्रविग्रहं वस्तु किञ्चिदपि कार्यं करोतीत्यतः तथाविधाया दिदृक्षाया बन्धप्रयोजकत्वं न सम्भवति । (९) बौद्धमतसमीक्षा सूत्र : परिणामभेआ बंधाइभेओ त्ति साहू, सव्वनयविसुद्धीए निरुवचरिओभयभावेणं । न अप्पभूअं कम्मं । न परिकप्पिअमेअं । न एवं भवादिभेओ । न भवाभावो उ सिद्धी । न तदुच्छेदेऽणुप्पाओ । न एवं समंजसत्तं । नाऽणाईमंतो भवो | न हेउफलभावो । वस्तुतस्त्वात्मा नित्योऽपि, द्रव्यतया, अनित्योऽपि, पर्यायतया । परिणामिनित्य आत्मेति हृदयम् । द्रव्यतया नित्योऽप्यात्मा नानापरिणामेषु परिणमते । एवमाप्नोत्यसौ देवमनुजादिपर्यायान् । आत्मैव बध्यते मुच्यते च । एवं तथाविधपरिणामविशेषेण बन्धमोक्षौ प्रमाणसिद्धौ । एकान्तनित्ये त्वात्मनि मरणादिपर्यायानुपपत्तिः, दुर्घटश्च बद्धमुक्तत्वादिव्यवहारः | न चायं व्यवहारः काल्पनिकः | तथा बाह्यवस्तु-सत्कपारमार्थिक

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324