Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 260
________________ पञ्चसूत्रोपनिषः सदैष भवति परार्थकुशलः, तत्तज्जीवयोग्यत्वाद्यनुसारेण तद्धितं साधयतीत्यर्थः । . प्रवचनप्रभावकैस्तैस्तैः प्रकारैर्बीजबीजादिस्थापनेन साधयत्येष परार्थम् । तत्र बीजम् - मोक्षबीजम् - सम्यक्त्वम्, तस्य बीजम् बीजोपनायकं प्रवचनप्रशंसादिकम्, आदिना जिनधर्माभिलाषलक्षणाऽङ्कुरादिग्रहः । विशिष्टोपदेशदानतः विशिष्टतप:करणेन जिनमतस्थापकवादकरणेन सङ्घयात्रादिना चाऽऽकृष्यन्ते जिनधर्मं प्रति जनाः - अहो सुन्दर एष धर्मः । एवञ्च बीजबीजस्य सम्यक्त्वलक्षणबीजकारणस्य न्यासो भवति । परार्थमप्येष सानुबन्धं साधयति । नापादयति परेषु विषयसुखाऽऽशंसाम् । स्थापयति तन्मतावुपादेयतया शुद्धं कल्याणमार्गम् । एवञ्च विशुद्धभावनात्मकानां प्रवचनप्रशंसादीनां योगेनाग्रेऽपि तत्परम्पराप्रसूतिः । एवञ्च सानुबन्धभावयोगः | परार्थसाधकोऽप्ययं सानुबन्धतां प्रापयति स्वकृतं परोपकारम्, निराशंसभावेन विशुद्धाशयेन च । एवञ्च स्वपरोभयकल्याणपरम्पराया अविच्छेदः । . - २११ किञ्च परार्थसाधको महोदयो भवति, स्वसिद्धधर्मस्य परेषु साधकतया महोन्नतियोगित्वात् । अपि चैष कर्तृवीर्यादियुक्तः । तत्र कर्तृ - परार्थप्रयोजकम्, वीर्यम् सामर्थ्यम्, तेन युक्तः - विभूषितोऽसौ भवति, आदिनोत्साह-प्रतिभादिग्रहः, इत्थमेव परार्थकरणसम्भवात्, अन्यथा खेदादिना तद्विच्छेदाच्च । अत एवावन्ध्यशुभचेष्टो भवत्यसौ, परार्थसम्पादनलक्षणामोघ

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324