Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 277
________________ २२८ पञ्चसूत्रोपनिषद् प्रकृतेरेव बद्धत्वे सदाशुद्धस्यात्मनः किमायातम् ? किमर्थं चासौ मुक्त्यर्थं पुरुषार्थं कुर्यादिति चिन्त्यम् । ननु प्रकृतिविकारोऽहमिति भ्रममपाकर्तुमात्मना मोक्षपुरुषार्थः कर्त्तव्य इति चेत् ? एतद्भ्रम एवात्मनोऽशुद्धदशापिशुनो बद्धत्वसूचकश्चेति किं न विचार्यते ? एवमेव भ्रमविगमेनात्मा शुद्धों मुक्तश्च सञ्जात इत्युक्तिसाङ्गत्यसम्भवात् । अतो प्राग्बद्धस्यैव मुक्तिरङ्गीकर्तुमुचिता । अबद्धस्यापि मुक्तिसम्भव आकाशादेरपि तत्प्रसक्तेश्च । 1 किञ्चात्मनो नित्यमुक्तत्वाभ्युपगमे भवतामेवाऽऽगमस्यानुपपत्तिः, यत्तत्रोक्तम् - पञ्चविंशतितत्त्वज्ञो यत्र तत्राऽऽश्रमे रतः । जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः इति । अथ बद्धत्वमेवात्मनोऽसम्भवि, अमूर्त्त आत्मनि मूर्त्तकर्मसम्बन्धासम्भवादिति चेत् ? न न हि संसार्यात्माऽऽकाशवत् सर्वथा शुद्धोऽरूपी च, किन्त्वनादिकालतः कर्मलेपलिप्ततया मूर्त्तसङ्काशः । अतस्तस्मिन् नवः कर्मसंयोगः सम्भवति । न च कश्चित् प्रथमः कर्मलेपोऽस्त्वात्मनीति वाच्यम्, अहेतुकत्वापत्तेः, तस्य च 'नाकारणं भवेत्कार्य' मितिनीत्याऽसम्भवात् । , सूत्र : अणाइमं बंधो पवाहेणं, अइयकालतुल्लो । अबद्धबंधणे वाऽमुत्ती, पुणो बंधपसंगओ, अविसेसों । अबद्धमुत्ताणं । व्यक्त्या तु प्रत्येका बन्धक्रिया नूतनोत्पन्ना, किन्तु प्रवाहत आत्माऽनादिकालतः कर्मबन्धविषयीभवति । निदर्शन

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324