Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 278
________________ पञ्चसूत्रोपनिषद् २२९ मत्रातीतकालः, स हि प्रवाहेणानादिमाननुभूतवर्त्तमानभावश्च, यथोक्तम् -भवति स नामातीतः, प्राप्तो यो नाम वर्तमानत्वम् । एष्यंश्च नाम स भवति, यः प्राप्स्यति वर्त्तमानत्वम् - इति । आकाशं तु व्यक्त्याऽनादि । न तु कर्मबन्ध इदृशः, तस्य प्रवाहतोऽनादित्वात्, व्यक्त्या तु सादिरेव सः | ननु प्रवाहतोऽप्यत्रास्तु सादिभावः, प्रवाहस्यापि कदाचित्प्रारम्भस्यावश्यकत्वादिति चेत् ? न, यदि बन्धोऽनादिर्न स्यात्तदा प्राक्तनकाल आत्मनोऽबद्धत्वमभ्युपेयं स्यात् । ततोऽप्यबद्धस्य बन्धः प्रतिपत्तव्यो भवेत् । एवञ्च न कदाचिदप्यस्य सिद्धिसम्भवः, सकृत्सर्वकर्मबन्धने त्यक्तेऽपि प्राग्वत् पुनरबद्धबन्धयोगेनात्यन्तिकमुक्त्यसम्भवात् । न ह्यबद्धमुक्तयोः कश्चिद् भेदः, शुद्धत्वस्योभयत्र निर्विशेषत्वात् । एवमबद्धबन्धसम्भवे मुक्तस्यापि तत्प्रसक्तिरिति निपुणं निभालनीयम् । (८) कर्मवियोगादिः सूत्र : अणाइजोगेवि विओगो कंचणोवलनाएणं । न दिदिक्खा अकरणस्स । न यादिह्रमि ऐसा । न सहजाए निवित्ती । न निवित्तीए आयट्ठाणं । न यऽण्णहा तस्सेसा । भव्वत्ततुल्ला नाएणं ! न केवलजीवरूवमेअं । न भाविजोगावेक्खाए तुल्लत्तं तया केवलत्तेण सयाऽविसेसओ । तहासहावकप्पणमप्पमाणमेव एसेव दोसो परिकप्पिआए | ननु यद्यनादिः कर्मसम्बन्धः, तदाऽस्य वियोगोऽसम्भवी, आकाशमेरुसम्बन्धवदिति चेत् ? न, दृष्टान्तवैषम्यात्,

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324