________________
पञ्चसूत्रोपनिषः
सदैष भवति परार्थकुशलः, तत्तज्जीवयोग्यत्वाद्यनुसारेण
तद्धितं साधयतीत्यर्थः ।
.
प्रवचनप्रभावकैस्तैस्तैः प्रकारैर्बीजबीजादिस्थापनेन साधयत्येष परार्थम् । तत्र बीजम् - मोक्षबीजम् - सम्यक्त्वम्, तस्य बीजम् बीजोपनायकं प्रवचनप्रशंसादिकम्, आदिना जिनधर्माभिलाषलक्षणाऽङ्कुरादिग्रहः । विशिष्टोपदेशदानतः विशिष्टतप:करणेन जिनमतस्थापकवादकरणेन सङ्घयात्रादिना चाऽऽकृष्यन्ते जिनधर्मं प्रति जनाः - अहो सुन्दर एष धर्मः । एवञ्च बीजबीजस्य सम्यक्त्वलक्षणबीजकारणस्य न्यासो भवति ।
परार्थमप्येष सानुबन्धं साधयति । नापादयति परेषु विषयसुखाऽऽशंसाम् । स्थापयति तन्मतावुपादेयतया शुद्धं कल्याणमार्गम् । एवञ्च विशुद्धभावनात्मकानां प्रवचनप्रशंसादीनां योगेनाग्रेऽपि तत्परम्पराप्रसूतिः । एवञ्च सानुबन्धभावयोगः | परार्थसाधकोऽप्ययं सानुबन्धतां प्रापयति स्वकृतं परोपकारम्, निराशंसभावेन विशुद्धाशयेन च । एवञ्च स्वपरोभयकल्याणपरम्पराया अविच्छेदः । .
-
२११
किञ्च परार्थसाधको महोदयो भवति, स्वसिद्धधर्मस्य परेषु साधकतया महोन्नतियोगित्वात् । अपि चैष कर्तृवीर्यादियुक्तः । तत्र कर्तृ - परार्थप्रयोजकम्, वीर्यम् सामर्थ्यम्, तेन युक्तः - विभूषितोऽसौ भवति, आदिनोत्साह-प्रतिभादिग्रहः, इत्थमेव परार्थकरणसम्भवात्, अन्यथा खेदादिना तद्विच्छेदाच्च । अत एवावन्ध्यशुभचेष्टो भवत्यसौ, परार्थसम्पादनलक्षणामोघ