________________
२१०
पञ्चसूत्रोपनिषद् दोषोपरागः ।
अत एवैषा क्रिया सर्वकर्मकलङ्कविमुक्तस्य मोक्षस्य साधिका । एतेन कुक्रिया, सदोषसुक्रिया मलिनाशयतः क्रियमाणा वा निर्दोषाऽपि सुक्रिया न साधयति मोक्षमित्यावेदितम् । सुक्रियानुभाव एष यदत उत्तरोत्तरशुभयोगसिद्ध्या शुभानुबन्धप्रसूतिः | नास्यां बाधते प्रमादाचरणम् । एवं निरन्तरं चरणयोगप्रवृत्त्या चित्ते सञ्जायते प्रशस्तपरिणामपरम्परा । - शुभानुबन्धा निरन्तरा चरणक्रिया सम्पादयति परार्थमपि। परार्थः - परोपकारः । स च द्विविधः - (१) गौणः - अन्नदानादिः, मिथ्यादृक्प्रकल्पिततत्त्वबोधदानं वा । (२) प्रधानः - बोधिबीजादिस्थापनम् । अधिकृतो मुनिः सम्यगवैपरीत्यं यथा स्यात्तथा परम् - प्रधानं परार्थं साधयति । पापप्रतिघातगुणबीजाधानाद्यापादनक्रमेणोपकुरुते परानिति भावः, एवमेवोपकारसम्भवात् ।
परार्थः सत्यार्थः - इति टीकागतपाठेऽयमर्थः - सद्भ्यो हितं सत्यम् । तत्र द्रव्यहितम् - दुःखनाशः, भावहितम् - आत्मविशुद्धिः । सम्भाव्यतेऽत्र सत्त्वार्थ इति पाठः । तत्र सत्त्वाः - जीवाः, तेषामर्थः - इष्टप्रयोजनम्, तदेव परार्थः । न . च परार्थः श्रेष्ठप्रयोजनं मोक्ष इत्येवास्त्वर्थ इति वाच्यम्, मूलकारोपन्यस्तस्य पर-इति परार्थविशेषणस्य वैयर्थ्यापत्तेः । किञ्चैवमग्रतनस्य बीजबीजादिस्थापनेनेतिपाठस्याप्यनुपपत्तिरिति यथोक्त एवार्थ उचितः । ...