________________
पञ्चसूत्रोपनिषद्
२०९ भावाराधननिबनधनं च पूर्वभवकृततद्बहुमानप्रशंसादिकम् । अनेकजन्माऽऽराधनायोगेन प्राप्यन्ते सच्चरणयोगा इति तात्पर्यम् । तत आक्षेपात् सम्यक् प्रवर्तते, नियमनिष्पादकत्वेन | ततश्चाऽनाकुलः सन् निष्पादयतीष्टम् ।
(१८) सत्क्रियाफलम् सूत्र : एवं किरिया सुकिरिआ, एगंतनिक्कलंका, निक्कलंकऽत्थसाहिआ, तहा सुहाणुबंधा उत्तरुतरजोगसिद्धीए। तओ से साहई परं परत्थं सम्म, तक्कुसले सया, तेहिं तेहिं. पयारेहिं साणुबन्धं महोदए, बीज-बीजादिट्ठावणेणं कत्तिविरियाइजुत्ते, अवंझसुहचिट्ठे, समंतभद्दे, सुप्पणिहाणाइ हेऊ, मोहतिमिरदीवे, रागामयवेज्जे, दोसाणलजलणिही, संवेगसिद्धिकरे हवइ अचिंतचिंतामणिकप्पे । .......
एवं भावाराधनारूपा सज्ज्ञानपुरस्सरमनुष्ठीयमाना चरणक्रिया सुक्रिया भवति, सज्ज्ञानमूलकत्वादेवौचित्यसचिवत्वात् । आध्यात्मिकविकास एवोदेत्यस्यामुपादेयमतिः | किञ्चाधिकृतस्य श्रमणस्य प्रव्रज्यायाः प्रागप्युचिताऽऽचारपुरस्सरमेव प्रव्रज्याग्रहणं. बभूव एवं च हृदयविशुद्धिप्रभावेण विवेकानुभावेन च प्रकृत्या शोभनैव भवति चरणक्रियेति ।
किञ्चैषैकान्तेन निष्कलङ्का भवति, नास्यां काप्यतिचारा. भवन्ति, अतोऽत्यन्तं शून्यैषा दोषमालिन्येन । कथङ्कारं सुक्रियासाधकोऽतिचारमलिनीकुर्यात् स्वमनुष्ठानम् ? स तु लेशेनापि न निषेवते रागादिप्रमादम् । ततश्चासम्भव्यस्य