________________
२०८
पञ्चसूत्रोपनिषद् धर्मप्रवृत्तिप्रयोजिकेति | .:.
एतत्प्रयुक्तधर्मप्रवृत्तौ प्रायो विघ्नं न विद्यते, सदुपायविहितत्वात्तस्याः । सदुपायाश्च प्रागुक्तचतुःशरण-गमनादयः गुरुबहुमानश्रुतोपासनादिगुणगणपर्यन्ताः । न चैषु सत्सु विघ्ननिपातो नाम । ___ ननु च पूर्वकृतकर्मोदयेन सम्भवत्यपि विघ्नमिति चेत् ? सत्यम्, तथापि न तद् बाधयितुं प्रत्यलं धर्मप्रवृत्तिम्, सदुपायप्रयुक्तत्वादेव । एवञ्च तत्र विघ्नत्वस्यैव विरहः । यथा सङ्गमकेन श्रीवीरधर्मप्रवृत्तिं बाधयितुं यत्नः कृतः । किन्तु तद्भावेऽपि श्रीवीरस्य तु स्फातिरेव सञ्जाता धर्मप्रवृत्तेरिति विघ्नरूपतामेव नापुः सङ्गमकस्याऽऽयासाः । तदेष सदुपायानुभावः, यन्न तद्योगे विघ्नसम्भव इति । -
· सदुपाययोगेन विघ्नाभावे बीजमाह-निरनुबनधाशुभकर्मभावेन - इति । यद्यपि शुभाशुभोभयकर्मसञ्चयो भवत्यात्मनि, किन्तु नाधिकृतस्य श्रमणस्य सत्तागतकर्मसु स्वोदयकाले नवाशुभकर्मबन्धहेतुबीजशक्तिर्भवति | सानुबन्धं ह्यशुभं कर्म न केवलमप्रशस्तं फलं वितरति, अपि त्वशुभबीजशक्त्यनुभावेन मलिनीकुरुते बुद्धिम् । जनयति हृदये सङ्क्लेशम् । ततश्च नूतनोऽपि स्यात्कर्मबन्धः । वस्तुतस्तु सानुबन्धकर्मवतः कर्मगौरवेण तात्त्विकः प्रव्रज्यायोगः एवं न भवति । अत एव नास्य सदुपायप्रवृत्तिरपि ।
एतज्ज्ञानयुक्तशुभचरणयोगा आकृष्यन्ते भावाऽऽराधनात् ।