________________
पञ्चसूत्रोपनिषद्
२०७ कुत्राप्यनुचितप्रवर्त्तनं स्यात्तस्य, एवमेव तच्छुभयोगस्य ज्ञानदशानुप्रवेशसम्भवात् । न ह्यनुचिताचरणभावे ज्ञानदशागन्धोऽपि, तादृशाचरणस्यैव स्पष्टतया मौढ्यलक्ष्मत्वात् । सति च मौढ्येऽशुभो भवत्यनुबन्धः । __ ननु चायुक्त एष आग्रहः, यज्ज्ञानसद्भावेऽल्पाऽपि न भवत्येवानुचितप्रवृत्तिरिति चेत् ? न, न ज्ञस्तदारभते यद्विनाशयति । विनाशाभावापादनार्थं कर्त्तव्योचितप्रवृत्तिः, निवर्तितव्यं चानुचितप्रवृत्तेः । न ह्यतोऽन्यथा सम्भवी विनाशपरिहारः । अनुचिताचरणेनैव क्लिश्यते जीवः, रावणवत्, रोहगुप्तवच्च न ह्येतदाचरणभावे ज्ञानदशासद्भावोऽभ्युपपत्तुं युक्तः ।
अत एवाह-अत्र - ज्ञानयुक्तानुष्ठाने भावः - सदन्तःकरणलक्षणः प्रवर्तकः, न मूढहृदयमिति भावः । यदि त्वन्तःकरणं मोहद्वेषेाऽऽसक्तिमदमायादैन्याद्यशुभभावसचिवं स्यात्, तदनुभावकलङ्कितं वा स्यात्, तदा धर्मप्रवृत्तिसद्भावेऽपि दुर्घटा सज्ज्ञानयुक्तता । तथाविधधर्मव्यापारप्रवर्त्तिका या काचिदपि मोहवासना भवति । एवञ्च धर्मप्रवृत्तित्वमेव तस्यामनुपपन्नम्, सज्ज्ञानमूलकत्वात्तात्त्विकस्य धर्मयोगस्य । स च सदन्तःकरणेन प्रवर्त्तते । अतः प्रधानमिदम् । एतदवगम्य धर्मप्रवृत्तेः प्रागेव पवित्रीकर्त्तव्यं हृदयम् | यथा न कापि मलिनवासना हृदि स्थिति बनीयात् । ततश्च सा धर्मप्रवृत्तिः सज्ज्ञानसचिवा भवेत् । ततोऽपि मोहवासनानिर्विण्णं चित्तं तस्यामेकायनभावमुपेयात् । न हि पाण्डित्यं सज्ज्ञानम्, अपि त्वल्पाऽपि शुद्धसंवित्तिपरिणतिरिति ध्येयम् । सैव पारमार्थिक