________________
२०६
पञ्चसूत्रोपनिषद् विशिष्टतरा भवति चरणाराधना | ततोऽप्युच्चतरसुरलोकावाप्तिः । ततोऽपि विशिष्टतराऽऽराधना मनुजभवे । एतत्क्रमेणावाप्यते चरमभवः । तत्सन्धाने प्रथमभवीयचरणाराधना प्रयोजिका | अत्र मध्यतनेषु भवेषु या भोगक्रिया अवाप्यन्ते, ताः सङ्क्लेशरहितं निर्लेपं चात्मावस्थानं न बाधन्ते । योजयन्त्युच्चतराराधनायाम् । दृश्यत एतत् समरादित्यकेवलिसत्के भवनवके। एतदाशयेनात्र भोगक्रियानिर्देश इति सर्वमवदातम् |
सूत्र : एअं नाणं ति वुच्चइ । एअम्मि सुहजोगसिद्धी उचितपडिवत्तिपहाणा । इत्थ भावो पवत्तगो । पायं विग्यो न विज्जइ निरणुबंधा सुहकम्मभावेण । अक्खित्ताओ ईमे जोगा भावाराहणाओ । तहा तओ सम्मं पवत्तइ, निफायई अणाउले।
ज्ञानक्रियाभ्यां मोक्षः, एतत्सूत्रस्थं ज्ञानं किं ? क्रिया च का ? तदत्र दर्शयन्नाह - (१) पूर्वोक्ताराधनागोचरोऽतीव श्रद्धासम्पन्नः सम्यग्बोधो ज्ञानम्, इष्टवस्तुतत्त्वनिरूपकत्वात् । (२) सा च क्रिया, या प्रोक्तज्ञानदशायां शुभयोगसिद्धिः । एतस्मिन् ज्ञाने सति शुभव्यापारनिष्पत्तिः । लोकद्वयेऽपीष्टहेतुप्रवृत्तिरनेन जन्यत इति भावः । एतच्छुभयोगे सम्यज्ज्ञानदशावलोकनेन भिन्नभिन्नानुबन्धगोचरं निपुणं भवति निरीक्षणम् । - पश्यति श्रमणो ज्ञानदृशा, यच्छुभक्रियाकाले हृदये किंस्वरूपोऽस्त्यनुबन्धः । यदि हि भावो विशुद्धस्तदा शुभानुबन्धिपुण्यबन्धः । कषायोदय-खेदादिदोष-भावे तु भवेदशुभानुबन्धिकर्मबन्धः । अतो शरव्यीकर्तव्या भावविशुद्धिः। . तद्भावे च सर्वत्रोचितप्रतिपत्तिप्रधानैव स्यात्प्रवृत्तिः । न