________________
पञ्चसूत्रोपनिषद्
२०५ ऐश्वर्यप्रभृतिग्रहः । एषा हि सामग्री सम्पूर्णभोगक्रियां प्रति निमित्तभावं प्रतिपद्यते । उक्तञ्च-रूपवयोवैचक्षण्य-सौभाग्यमाधुर्यैश्वर्याणि भोगसाधनम् - इति । ततस्ताः सम्पूर्णाः प्राप्नोति सुरूपादिकल्पाद् भवाद् भोगक्रियाः, अविकलहेतुभावतः । ताश्चासङ्क्लिष्टसुखरूपाः, शून्यताभावेन - गृद्ध्यादिदोषविरहसद्भावेन सङ्क्लेशाभावात् । ... __नाप्यन्यसन्तापकारिण्यो भवन्ति ता भोगक्रियाः । वैचक्षण्यादिगुणसन्दोहेन सम्भवत्येतदपि । एवञ्चानुबन्धेनाप्या चरमभवं सुन्दरा भवन्त्येताः । सङ्क्लेशेन परपंरितापेन वाऽनाचरितत्वात् । इतरा तुः भोगक्रियाऽसुन्दराः, सङ्क्लेशसहितत्वात्, परपरितापकत्वाच्च । एवञ्च तत्सतत्त्वाभाव एवेति निपुणं निभालनीयम् । सैव परमार्थतोः भोगक्रिया, येहलोके स्वात्मसङ्क्लेश-परात्मपरितापतो-ऽकलङ्कितं वितरति सौख्यम्, प्रेत्य चाऽऽमुक्तिं प्रयच्छति सानुबन्धं सुन्दरं सौख्यम् । . ..
ननु च कथमत्र श्रामण्य फलत्वेन भोगक्रियाऽभिहितेति चेत् ? अत्रोच्यते, श्रामण्यस्य प्रधानफलं तु. मोक्षसाधकस्य चरमभवस्यानुसन्धानमेवेति प्रागुक्तम् । किन्तु तद्भवद्वितयमध्येऽपि भवन्ति भवग्रहणानि । तेष्वपि पुण्यतो विशिष्टभोगसुखप्राप्तिर्भवति । ते च. भोगा निरतिचारनिराशंसोच्चाराधनानुभावेन सङ्क्लेशरहिताः परासन्तापका अशुभानुबन्धाकलङ्किताश्च : |., नैभिर्लिप्यत आत्मा, जलेन पुष्करपलाशवत् । अत एवावसरे. सुखेन भवति तत्त्यागश्चारित्रग्रहणञ्च । नात्र भवति विलम्बः । अत एव