________________
२०४
स्यात्, परमब्रह्मसाधकः - इति ।
सूत्र : एस आराहगे सामण्णस्स जहागहिअपईणे, सव्वोवहासुद्धे, संधइसुंद्धगं भवं सम्मं अभवसाहगं भोगकिरिआसुरूवाकप्पं । तओ ता संपुण्णा पाउणइ अविगलहेउभावओ असंकिलिट्ठसुहरूवाओ अपरोवताविणो सुंदरा अणुबंधेण । न य अन्ना संपुण्णा, तत्तत्तखंडणेण ।
एष एवम्भूत आराधकः श्रामण्यस्य, निष्पादकः श्रमणभावस्य, यथा गृहीतप्रतिज्ञः, आदित आरभ्य सम्यक्प्रवृत्तेः । एवं सर्वोपधिविशुद्धः, निरतिचारत्वेन, सन्धत्ते घटयति, शुद्धं भवं जन्मविशेषलक्षणं भवैरेव, अयमेवं विशेष्यते - सम्यग्भवसाधकम्, सत्क्रियाकरणेन मोक्षसाधकमित्यर्थः । असङ्ख्यजन्मोपचितानि कर्माण्यपर्यन्तभवसञ्चिताश्च वासना आत्मसंयोग भजन्ते । तदात्यन्तिकक्षयमन्तरेण दुर्घटा मोक्षः । तत्क्षयोऽपि दुर्लभ इहैव भवे । अतः प्रथमभवीयविशिष्टाराधनानन्तरमपि भवग्रहणानि तु कर्त्तव्यान्यवशिष्यन्ते । प्रसिद्धमेतत् पृथ्वीचन्द्रादिवृत्तेषु । तथापि तेषु भवेषु सङ्क्लेशरहितो भवति भोगः, पूर्वानुबन्धानुभावात् । तेषु सत्यपि विभवभोग उत्तरोत्तरं वर्द्धत आत्मविशुद्धिः । ततोऽपि पर्यन्तो भवो भविष्यति विशुद्धतमः, यत्र सेत्स्यति सर्वथा विशुद्धमनुष्ठानम् । ततश्चैष भवो भविष्यति मोक्षसाधकः, तदनन्तरमेव मुक्त्यवाप्तेः ।
·
पञ्चसूत्रोपनिषद्
-
•
न हि तादृशं शुद्धं भवमन्तरेण भवाभावयोगः, यथा न सुरूपत्वांदिकं भोंगसाधनमन्तरेण सम्पूर्णभोगक्रियाः सम्यग् भवन्ति । आदिना वयः विचक्षणत्व - सौभाग्य- माधुर्य