________________
पञ्चसूत्रोपनिषद्
२०३
लोकसञ्ज्ञाम् प्रभूतसंसाराभिनन्दिसत्त्वक्रियाप्रीतिरूपा हि लोकसञ्ज्ञा । कथन्नामाज्ञे लोके मत्सौन्दर्यं प्रकटीभवेत् ? किमुचितं प्रतिभाति लोकस्य ? तदेवानुसराम्यहम् - इति चित्तवृत्तिर्हि लोकसञ्ज्ञा । तां जित्वा परिहरति मुनिः । न हि जिनवचस्यत्यन्तमनुरक्तस्य तद्विरुद्धायामेकतरस्यामपि • लोकप्रवृत्त्यामनुरज्यति चेतः ।
लोकसञ्ज्ञाविजयेन प्रतिस्रोतोगामी भवति मुनिः । निवर्त्ततेऽसावनुस्रोतोगमनात् । इत्थञ्च लोकाचारप्रवाहनदीं प्रति प्रतिस्रोतोगामी मुनिः । न हि भवाभिनन्दिप्रीतिहेतुसंसारवर्धनेन्द्रियमनोऽनुकूलायां प्रवृत्तावनुयुज्यत एषः । अपि तु तत्प्रतीपं कुरुते गमनम् । एतच्चाभ्यासातिशयेन सन्ततप्रयत्नात्मकेन सम्भवि । न्याय्यं चैतत्, यत्पारमर्षम् अणुसोयपट्ठिए बहुजणम्मि । पडिसोअलद्धलक्खेणं पडिसोयमेव अप्पा दायव्वो होउकामेणं । अणुसोयसुहो लोओ पडिसोए आसवो सुविहियाणं । अणुसोओ संसारो पडिसोओ तस्स उत्तारो - इति (दशवैकालिके)
-
भावनीयान्यत्र मेघकुमार - शालिभद्रप्रभृतिनिदर्शनानि, सनत्कुमारराजर्षिणाऽवगणितः पृष्ठलग्नः समग्रः परिवारः । उच्यत एतत्प्रतिस्रोतगमनम् । एवं लौकिकधर्मादत्यन्तं भिन्ने लोकोत्तरे श्रमणधर्मे नित्यं परायणो भवत्यसौ । एवं सदा शुभयोगः - श्रामण्यव्यापारसङ्गतः, एष योगी व्याख्यातः । एवम्भूतो भगवद्भिर्योगी प्रतिपादितः यथोक्तम् सम्यक्त्वज्ञानचारित्रयोगः सद्योग उच्यते । एतद्योगाद्धि योगी