________________
२१२
फलप्रदत्वात्तद्यत्नस्य ।
ननु दृष्टमेवोपदेशादिपरार्थप्रवृत्तैर्वैफल्यमिति चेत् ? सत्यम्, किन्तु तत्र कर्त्रादिवैगुण्यं हेतुः । न हि परोपदेशमात्रपण्डितानां साफल्यमृच्छति वचनश्रमः । श्रामण्यसुस्थितानां तु देशनावचः न निष्फलतां गच्छति, आपातेन तत्ताप्रतीतावपि परमार्थतः पापभीरुत्वादिफलत्वात्तस्य । नाप्ययोग्येऽभियोगमपि कुर्वन्ति ते परार्थकुशलत्वात् । अतो न तेषां प्रवृत्तेर्नैरर्थ्यसम्भवः । तथैष परार्थसाधक आत्मा समन्तभद्रः परिसमन्तात्कल्याणस्वरूपः सौम्यमुद्रत्वात्, कल्याणकृद्वचनोपेतत्वात्, कल्याणयोनिप्रवृत्तिमात्रप्रवृत्तत्वात्, मार्दवालङ्कृतप्रकृतिकत्वात्, सौजन्यविभूषितत्त्वात्, उदाराशयत्वाच्च ।
,
..
पञ्चसूत्रोपनिषद्
-
तमेव विशेषयति- सुप्रणिधानादिहेतुः । आत्मार्थे परार्थे वाऽपि प्रवृत्तोऽसौ सर्वत्र सत्प्रणिधान प्रवृत्ति - विघ्नजय-सिद्ध्युपेतो भवति । न चास्य न्यूनता भवति क्वापि । एवञ्चान्येषामपि जनयति सत्प्रणिधानादिकम् । दृष्टचरमेतद् यत् सर्वथा सुगुणोऽध्यापकोऽध्येतारमपि सर्वथा सुगुणत्वाद्युपेतं करोति । एवं समन्तभद्रोपदिष्टा अन्येऽपि भव्यात्मानः सत्प्रणिधानादिसम्पन्ना भवन्ति ।
तमेव विशेषयति - मोहतिमिरदीपः, प्रदीपवद्दूरीकरोत्येष मोहान्धकारमित्याकृतम् । उपशामयत्यसौ जीवस्य मौढ्यं स्वमुद्रादर्शनमात्रेण | निराकरोत्यज्ञान - कुमति - कदाग्रहाद्यन्धतमसं स्ववचः प्रकाशैः ।