Book Title: Nyayadipika Author(s): Dharmbhushan Yati, Shreelal Shastri Publisher: Pannalal Jain View full book textPage 6
________________ ० नमः सिद्धेभ्यः । सनातन जैन ग्रंथमाला | १० श्रीधर्मभूषणयतिविरचिता न्यायदीपिका | श्रीवर्धमानमर्हतं नत्वा बालप्रबुद्धये । विरच्यते मित स्पष्ट संदर्भन्यायदीपिका ॥१॥ I " प्रमाणनयैरधिगमः" इति महाशास्त्रतत्त्वार्थसूत्रं । तत्खलु परमपुरुषार्थनिःश्रेयससाधनसम्यग्दर्शनादिविषयभूतर्ज, वादितवाधिगोपायनिरूपणपरं । प्रमाणनयाभ्यां हि विवेचिता जीवादयः सम्यगधिगम्यते । तद्व्यतिरेकेण जीवाद्यधिगमे प्रकारांतरासंभवात् । तत एव जीवाद्यधिगमोपायभूती प्रमाणनयावपि विवेक्तव्यौ । तद्विवेचनपराः प्राक्तनग्रंथाः संयेव, तथापि केचिद्विस्तृता: केचिगंभीरा इति न तत्र बालानामधिकारः । ततस्तेषां सुखेोपायेन प्रमाणनयात्मकन्यायस्वरूपप्रतिबोधकशास्त्राधिकार संपत्तये प्रकरणमिदमारभ्यते । इह हि प्रमाणनयविवेचनमुद्देश लक्षणनिर्देश परीक्षाद्वारेण क्रियते । अनुद्दिष्टस्य लक्षणनिर्देशानुपपत्तेः । अनिर्दिष्टलक्षणस्य परीक्षितुमश -Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50