Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 21
________________ सनातनजैनग्रंथमालायां " सामान्यविशेषात्मा तदर्थो विषयः” इति । तस्मात्सुष्ठुक्तं 'अविशदावभासनं परोक्ष' इति । तत्पंचविधं-स्मृतिः प्रत्यभिज्ञानं तर्कोऽनुमानमागमश्चेति । पंचविधस्याप्यस्य परोक्षस्य प्रत्ययांतरसापेक्षत्वनैवोत्पत्तिः । तद्यथा, स्मरणस्य प्राक्तनानुभवापेक्षा, प्रत्यभिज्ञानस्य स्मरणानुभवापेक्षा, तर्कस्यानुभवस्मरणप्रत्यभिज्ञानापेक्षा, अनुमानस्य च लिंगदर्शनाद्यपेक्षा, आगमस्य शब्दश्रवणसंकेतग्रहणाद्यपेक्षा । प्रत्यक्षं तु न तथा स्वातंत्र्येणैवोत्पत्तेः । स्मरणादीनां प्रत्ययांतरापेक्षा तु तत्र तत्र निवेदयिष्यते। ___ तत्र का नाम स्मृतिः । तदित्याकारा प्रागनुभूतवस्तुविषया स्मृतिः । यथा स देवदत्त इति । अत्र हि प्रागनुभूत एव देव- . दत्तस्तत्तया प्रतीयते, तस्मादेषा प्रतोतिस्तत्तोल्लेखिन्यनुभूतविषया च, अननुभूते विषये तदनुत्पत्तेः । तन्मूलं चानुभवो धारणारूप एव । अवग्रहाद्यनुभूतेऽपि धारणाया अभावे स्मृतिजननायोगात् । धारणा हि तथा आत्मानं संस्करोति यथासावात्मा कालांतरेऽपि तस्मिन् विषये ज्ञानमुत्पादयति । तदेतद्धारणाविषय समुत्पन्नं तत्तोल्लेखिज्ञानं स्मृतिरिति सिद्धं । नन्वेवं धारणागृहीत एव स्मरणस्योत्पत्तौ गृहीतग्राहित्वादप्रामाण्यं प्रसज्यत इति चेन्न, विषयविशेषसद्भावादीहादिवत् । यथा हि-अवग्रहादिगृहीतविषयाणामीहादीनां विषयविशेषसद्भावात्स्वविषयसमारोपव्यवच्छेदकत्वेन प्रामाण्यं तथा स्मरणस्यापि धारणागृहीतविषयप्रवृत्तावपि प्रामाण्यमेव । धारणाया हीदंतावच्छिन्नो विषयः, स्मरणस्य तु तत्तावच्छिन्नः । तथा च स्मरणं स्वविषयास्मरणादिसमारोपव्यवच्छेदकत्वात्प्रमाणमेव । तदुक्तं प्रमेयकमलमार्तडे "विस्मरणसंशयविपर्यासलक्षणः समारोपोऽस्ति तन्निराकरणाच्चास्याः स्मृतेः

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50