Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 22
________________ न्यायदीपिका। प्रामाण्यं" इति । यदि चानुभूते प्रवृत्तमित्येतावता स्मरणमप्रमाणं स्यात्तर्हि-अनुमितेऽग्ना पश्चात्प्रवृत्तं प्रत्यक्षमप्यप्रमाणं स्यात् । ____अविसंवादित्वाच्च प्रमाणं स्मृतिः प्रत्यक्षादिवत् । न हि स्मृत्वा निक्षेपादिषु प्रवर्तमानस्य विषयविसंवादोस्ति । यत्र त्वस्ति विसंवादस्तत्र स्मरणस्याभासत्वं प्रत्यक्षाभासवत् । तदेवं स्मरणाख्यं पृथक् प्रमाणमस्तीति सिद्धं । अनुभवस्मृतिहेतुकं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानं । इदंतोल्लखि ज्ञानमनुभवः । तत्तोल्लखि ज्ञानं स्मरणं । तदुभयसमुत्थं पूर्वोत्तरेक्यसादृश्यवैलक्षण्यादिविषयं यत्संकलनरूपं ज्ञानं जायते तत्प्रत्यभिज्ञानमिति ज्ञातव्यं । यथा स एवायं जिनदत्तो, गोसदृशो गवयो, गोविलक्षणो महिष इत्यादि । ___अत्र हि पूर्वस्मिन्नुदाहरणे जिनदत्तस्य पूर्वोत्तरदशाद्वयव्यापकमेकत्वं प्रत्यभिज्ञानस्य विषयः, तदिदमेकत्वप्रत्यभिज्ञानं । द्वितीय तु पूर्वानुभूतगोप्रतियोगिकं गवयनिष्ठं सादृश्यं । तदिदं सादृश्यप्रत्यभिज्ञानं । तृतीये तु पुनः-प्रागनुभूतगोप्रतियोगिकं महिषनिष्ठं वैसादृश्यं । सदिदं वैसादृश्यप्रत्यभिज्ञानं । एवमन्येऽपि प्रत्यभिज्ञानभेदा यथाप्रतीति स्वयमुत्प्रेक्ष्याः । अत्र सर्वत्रापि अनुभवस्मृतिसापेक्षत्वात्तद्धेतुकलं । केचिदाहुः "अनुभवस्मृतिव्यतिरिक्तं प्रत्यभिज्ञानं नास्ति" इति तदसत, अनुभवस्य वर्तमानकालवर्तिविवर्तमात्रप्रकाशकत्वं, स्मृतेश्वातीतविवर्तद्योतकत्वमिति तावद्वस्तुगतिः । कथं नाम तयोरतीतवर्तमानकालसंकलितैक्यसादृश्यादिविषयावगाहित्वं । तस्मादस्ति स्मृत्यनुभवातिरिक्तं तदनंतरभावि संकलनज्ञानं । तदेव प्रत्यभिज्ञानं । अपरे त्वेकत्वप्रत्यभिज्ञानमभ्युपगम्यापि तस्य प्रत्यक्षतर्भावं कल्पयंति । तद्यथा, यदिद्रियान्वयव्यतिरेकानुविधायि नत्प्रत्यक्षमिति ताव

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50