Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain
View full book text
________________
न्यायदीपिका।। भवति स से धूमवान्न भवति यथा महाह्रदः । इति वैधयॊदाहरणं । पूर्वत्रोदाहरणभेदे हेतोरन्वयव्याप्तिः प्रदर्यते । द्वितीये तु व्यतिरेकव्याप्तिः । तद्यथा-अन्वयव्याप्तिप्रदर्शनस्थानमन्वयदृष्टांतः । व्यतिरेकव्याप्तिप्रदर्शनप्रदेशो व्यतिरेकदृष्टांतः। एवं दृष्टांतद्वैविध्यात्तद्वचनस्योदाहरणस्यापि द्वैविध्यं बोद्धव्यं । अनयोश्चोदाहरणयोरन्यतरप्रयोगेणेव पर्याप्तवादितराप्रयोगः । दृष्टांतापेक्षया पक्षहेतोरुपसंहारवचनमुपनयः तथा चायं धूमवानिति । हेतुपूर्वकं पक्षवचनं निगमनं, तस्मादग्निमानेवेति। एते पंचावयवाः परार्थानुमानप्रयोगस्य । तदन्यतमाभावे वीतरागकथायां विजिगीषुकथायां वा नानुमितिरुदेति" इति नैयायिकानामभिमतं । तदेतदविमृश्याभिमननं । वीतरागकथायां तु प्रतिपाद्याशयानु. रोधेनावयवाधिक्येऽपि विजिगीषुकथायां प्रतिज्ञाहेतुरूपावयवद्वयेनैव पर्याप्तेः किमप्रयोजनैरन्यैरवयवैः ।
तथा हि, वादिप्रतिवादिवोः स्वमतस्थापनार्थ जयपराजयपर्यंत परस्परं प्रवर्तमान वाग्व्यापारो विजिगीषुकथा। गुरुशिष्याणां विशिष्टविदुषां वा रागद्वेषरहितानां तत्त्वनिर्णयपर्यंते परस्परं प्रवर्तमानो वाव्या. पारो वीतरागकथा। तत्र विजिगीषुकथा वाद इति चोच्यते। केचिद्वीतरागकथा वाद इति कथयति तत्पारिभाषिकमेव । नहि लोके गुरुशिष्यादिवाग्व्यापारे वादव्यवहारः, विजिगीषुवाग्व्यवहार एव वादत्वप्रसिद्धः यथा स्वामिसमंतभद्राचार्यैः सर्वे सर्वथैकांतवादिनो वादे जिता इति ।
तस्मिंश्च वादे परार्थानुमानवाक्यस्य प्रतिज्ञा हेतुरित्यवयवद्वयमेवोपकारक, नोदाहरणादिकं । तद्यथा, लिंगवचनात्मकेन हेतुना तावदवश्यं भवितव्यं । लिंगज्ञानाभावेऽनुमितेरेवानुदयात् । पक्षवचनरूपया प्रतिज्ञयापि च भवितव्यं, अन्यथाऽभिमतसाध्यनिश्चयाभावे साध्यसंदेहवतः श्रोतुरनुमित्यनुदयात् । तदुक्तं " एतद् द्वयमेवानु.

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50