Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 35
________________ सनातनजैनग्रंथमालायां कृतेऽदृष्टादौ वर्तते, सपक्षभूतेऽग्न्यादौ वर्तते, सतः पक्षधर्मत्वं सपक्षे सत्त्वं चास्ति । विपक्षः पुनरत्र नास्त्येव, सर्वस्यापि पक्षसपक्षांतर्भावात् । तस्माद्विपक्षाव्यावृतिर्नास्त्येव, घ्यावृत्तरवधिसापेक्षत्वादवधिभूतस्य च विपक्षस्याभावात् । शेषमन्वयव्यतिरेकिवद्रष्टव्यं । पक्षवृत्तिर्विपक्षव्यावृत्तः सपक्षरहितो हेतुः केवलव्यतिरेकी । यथा जीवच्छरीरं सात्मकं भवितुमर्हति प्राणादिमत्वात् । यद्यत्सात्मक न भवति तत्तत्प्राणादिमन्न भवति, यथा लोष्ठमिति । अत्र जीवच्छ. रीरं पक्षः, सात्मकत्वं साध्य, प्राणादिमत्त्वं हेतुः, लोष्ठादिय॑तिरोकि दृष्टांतः । प्राणादिमत्त्व हेतुः पक्षीकृते जीवच्छरीरे वर्तते । विपक्षाच्च लोष्ठादेावर्तते । सपक्षः पुनरत्र नास्त्येव । सर्वस्यापि पक्षविपक्षांतर्भावादिति । शेषं पूर्ववत् । ___ एवमेतेषां त्रयाणां हेतूनां मध्येऽन्वयव्यतिरेकिण एव पांचरूप्यं, केवलान्वयिनो विपक्षव्यावृत्यभावात्, केवलव्यतिरेकिणः सपक्षसत्त्वाभावाच्च नैयायिकमतानुसारेणैव पांचरूप्यन्यभिचारः । अन्यथा. नुपपत्तेस्तु सर्वहेतुव्याप्तत्वाद्धेतुलक्षणत्वमुचितं । तदभावे हेतोः खसाध्यगमकत्वाघटनात् । ___ यदुक्तमसिद्धादिदोषपंचकनिवारणाय क्रमेण पंचरूपाणीति तन्न, अन्यथानुपपत्तिमत्त्वेन निश्चितत्वस्यैवास्मदभिमतलक्षणस्य तन्निवारकत्वसिद्धेः । तथा हि, साध्यान्यथानुपपत्तिमत्त्वे सति निश्चयपथप्राप्तवं खलु हेतोर्लक्षणं साध्याविनाभावित्वेन निश्चतो हेतुरिति वच. . नात् । न चैतदसिद्धस्यास्ति, शब्दानित्यत्वसाधनायाभिप्रेतस्य चाक्षुपत्लादेः स्वरूपस्यैवाभावे कुतोन्यथानुपपत्तिमत्त्वेन निश्चयपथप्राप्तिः । ततः साध्यान्यथानुपपत्तिमत्त्वेन निश्चयपथप्रप्त्यभावादेवास्य हे. वाभासत्वं, न तु पक्षधर्मत्वाभावात् अपक्षधर्मस्यापि कृत्तिकोदयादेर्य

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50