Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 37
________________ ३२ सनातन जैन ग्रंथमालायां इति । अत्र हि हेतुरस्तु साध्यं मा भूदित्येतस्मिन् विपक्षे सामान्यविशेषभावभंगप्रसंगे बाधकः । वृक्षत्वं हि सामान्यं शिशपात्वं तद्विशेषः । न हि विशेषः सामान्याभावे संभवति । न चैत्रं मैत्रतनयत्वमस्तु श्यामत्वं मास्त्वित्युक्ते किंचिद्वाधकमस्ति तस्मान्मैत्रतन्रयत्वं हेत्वाभास एव । तस्य तावत्पक्षधर्मत्वमस्ति, पक्षी - कृते गर्भस्थे तत्सद्भावात् । सपक्षेषु संप्रतिपत्रेषु तस्य विद्यमानत्वात्सपक्षे सत्त्वमप्यस्ति । विपक्षेभ्यः पुनरश्यामेभ्यश्चैत्रपुत्रेभ्यो व्यावर्त - 1 मानत्वाद्विपक्षाद्व्यावृत्तिरस्ति । विषयबाधाभावादबाधितविषयत्वमस्ति । नहि गर्भस्थस्य श्यामत्वं केनचिद्वाध्यते । असत्प्रतिपक्षत्वमप्यस्ति, प्रतिकूल स्वमबल प्रमाणाभावात् । इति पांचरूप्यसम्पत्तिः । त्रैरूप्यं तु सहस्त्रे शतन्यायेन सुतरां सिद्धमेव । ननु च न पांच रूप्यमात्रं हेतोर्लक्षणं । किं तर्हि ? अन्यथानुपपम्युपलक्षणमिति चेत्तर्हि सैवैकां नलक्षणमस्तु । तदभावे पाञ्चरूप्य स - पत्तावपि मैत्रतनयत्वादौ न हेतुत्वं । तत्सद्भावे पांच रूप्याभावेऽपि कृतिकोदयादौ हेतुत्वमिति । तदुक्तं - "अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं ॥” इति बौद्धान् प्रति । योगान् प्रति तु — " अम्यथानुपपन्नत्वं यत्र किं तत्र पंचभिः । मान्यथानुपपन्नत्वं यत्र किं तत्र पंचभिः || १ ||" इति । सोयमन्यथानुपपत्तिनिश्चयैकलक्षणो हेतुः संक्षेपतो द्विविधः । विधिरूपः प्रतिषेधरूपश्चति । विधिरूपोऽपि द्विविधो विधिसाधकः प्रतिषेधसाधकश्चेति । तत्राद्योऽनेकधा तद्यथा कश्चित्कार्यरूपो यथा पर्वतोऽयमग्निमान्धूमवत्त्वान्यथानुपपत्तेरित्यत्र धूमः । धूमो ह्यग्नः कार्यभूतस्तदभावेऽनुपपद्यमानोऽग्निं गमयति । कश्चित् कारणरूपः यथा

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50