Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain

View full book text
Previous | Next

Page 45
________________ ४० सनातन जैन ग्रंथमालायां अंता धर्माः सामान्यविशेषपर्याया गुणा यस्येति सिद्धोऽनेकांतः । तत्र सामान्यमनुवृत्तस्वरूपं, तद्धि घटत्वं पृथुबुध्नोदराकारः, गोत्वमिति स्वास्नादिमत्वमेव । तस्मान्न व्यक्तितोत्यंतमन्यन्नित्यमेकमनेकवृत्ति । अन्यथा " न याति न च तत्रास्ते न पश्चादस्ति नाशवत् । जहाति पूर्वं नाधारमहो व्यसनसंततिः " ॥ इति दिङ्नागदूषण दूषितगणप्रसरप्रसंगात् । पृथुबुध्नोदराकारादिदर्शनानंतरमेव घटोऽयं गौरयमित्याद्यनुवृत्तप्रत्ययसंभवात् । विशेषोऽपि स्थूलोऽयं घटः सूक्ष्म इत्यादिव्यावृत्तप्रत्ययावलंबनं घटादिस्वरूपमेव । तथा चाह भगवान्माणिक्यनंदिभट्टारकः " सामान्यविशेषात्मा तदर्भ : " इति । 1 पर्यायो द्विविधः, अर्धपर्यायो व्यंजनपर्यायश्चेति । तत्रार्थपर्यायो भूतत्व भविष्यत्त्वसंस्पर्शरहित शुद्ध वर्तमानकालत्वावच्छिन्नं वस्तुस्वरूपं । तदेतदृजुसूत्रनयविषयमामनंत्यभियुक्ताः । एतदेकदेशावलंबिनः खलु सौगताः क्षणिकवादिनः । व्यंजनं व्यक्तिः, प्रवृत्तिनिवृत्तिनिबंधनजला। नयनाद्यर्थक्रियाकारित्वं । तेनोपलक्षितः पर्यायो व्यंजनपर्यायो- मृदादेः पिंडस्थासकोशकुसूलघटकपालादयः पर्यायाः । यावद्रव्यभाविनः सकलपर्यायानुवर्तिनो गुणाः । वस्तुत्वरूपरसगंधस्पर्शादयः । मृद्रव्यसंबंधिनो हि वस्तुत्वादयः पिंडादिपर्यायाननुवर्तते, न तु पिंडादयः स्थासादीन् । तत एव पर्यायाणां गुणेभ्यो भेदः। यद्यपि सामान्यविशेषौ पर्यायौ तथापि संकेत प्रहणनिबंधनस्य शब्दव्यवहारविषयत्वा (दा) गमप्रस्ताव तयोः पृथनिर्देशः । तदनयेोगुणपर्याययाद्रव्यमाश्रयः " गुणपर्ययवद् द्रव्यं" इति आचार्यानुशासनात् । तदपि सत्त्वमेव "सत्त्वं द्रव्यं" इत्याकरजवचनात् । तदपि जीवद्रव्यमजीवद्रव्यं चेति संक्षेपतो द्विविधं । द्वयमप्येतदुत्पचिविनाशस्थितियोगि “उत्पादव्ययत्रौव्ययुक्तं सत्" इति निरूपणात् । •

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50