Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Shreelal Shastri
Publisher: Pannalal Jain
View full book text
________________
૨૮
सनातन जैन ग्रंथमालायां
व्यतिरेकव्याप्तेश्च संभवान्निश्चितसाधने गर्भस्थ मैत्रतनये पक्षे साध्य - भूतश्यामत्वसंदेहस्य गुणत्वात्सम्यगनुमानं प्रसज्येतेति चेन्न ।
दृष्टांतस्य विचारांतर बाधितत्वात् । तथा हि साध्यत्वेनाभिमतमिदं हि श्यामरूपं कार्यं सत् स्वसिद्धये कारणमवेक्षते । तच्च कारणं न तावन्मैत्रतनयत्वं विनापि तदिदं पुरुषांतरे श्यामत्वदर्शनात् । न हि कुलालचक्रादिकमंतरेणापि संभविनः पटस्य कुलालादिकं कारणं । एवं मैत्रतनयत्वस्य श्यामत्वं प्रत्यकारणत्वे निश्चिते यत्र यत्र मैत्रतनयत्वं न तत्र तत्र श्यामत्वं किंतु यत्र यत्र श्यामत्वस्य कारणं विशिष्टनामकर्मानुगृहीतशाकाद्या हारपरिणामस्तत्र तत्र तस्य कार्यं श्यामत्वमिति सामग्रीरूपस्य विशिष्टनामकर्मानुगृहीतशाकाद्याहारपरिणामस्य इमामत्वं प्रति व्याप्यत्वं । स तु पक्षे न निश्चीयते इति संदिग्धासिद्धः । मैत्रतनयत्वं त्वकारणत्वादेव श्यामत्वं कार्य न गमयेदिति ।
1
कश्चिन्निरुपाधिकसंबंधो व्याप्तिरित्यभिधाय साधनाव्यापकत्वे सति साध्यसमवाप्तिरुपाधिरित्यभिधत्ते । सोयमन्योन्याश्रयः । प्रपंचि - तमेतदुपाधिनिराकरणे कारुण्यकलिकायामिति विरम्यते । साधनवत्तया पक्षस्य दृष्टांतसाम्यकथनमुपनयः । तथा चायं धूमवानिति । साधनानुवादपुरस्सरं साध्यनियमवचनं निगमनं । तस्मादग्निमानेबेति । अनयोर्व्यत्ययेन कथनमनयोराभासः । इत्यवसितमनुमानं ।
अथागमो लक्ष्यते । आप्तवाक्यनिबंधनमर्थज्ञानमागमः । अत्रागम इति लक्ष्यं । अवशिष्ट लक्षणं । अर्थज्ञानमित्येतावदुच्यमाने प्रत्यक्षादावतिव्याप्तिः, अत उक्तं वाक्यनिबंधनमिति । वाक्य निबंधनमर्थज्ञानमागम इत्युच्यमानेऽपि यादृच्छिक संवादिषु विप्रलंभवाक्यजन्येषु सुप्तोन्मत्तादिवाक्यजन्येषु वा नदीतीरफलसंसर्गादिज्ञानेष्वतिव्याप्तिः । अत उक्तमाप्तेति । आप्तवाक्यनिबंधनज्ञान मित्युच्यमानेऽपि आप्तवाक्यकर्मके श्रावणप्रत्यक्षेऽतिव्याप्तिः, अत उक्तमर्थेति । अर्थ

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50